पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनषष्टितमः सर्गः

ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।
शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ ४६
काममार्यः सुपर्यासो वधायास्य दुरात्मनः । विघमिष्याम्यहं नीचमनुजानीहि मां प्रमो ॥ ४७
तमनवीन्महातेजा रामः सत्यपराक्रमः । गच्छ यशपरश्चापि भव लक्ष्मण संयुगे ॥
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः । त्रैलोक्येनापि संक्रुद्धो दुष्प्रसयो न संशयः ॥ ४९
तस्य च्छिद्राणि मार्गम्व स्वच्छिद्राणि च 'लक्षय । चक्षुषा धनुषा यलादक्षात्मानं समाहितः ।।
राघवम्य वचः श्रुत्वा परिष्वज्याभिपूज्य च । अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥ ५१
स गवणं वारणहम्नबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।
प्रच्छादयन्तं शरवृष्टिजालस्तान् वानगन् भिन्नविकीर्णदेहान् ।। ५२
तमालोक्य महातेजा हनुमान् माझ्नात्मजः । निवार्य गरजालानि प्रदुद्राव स रावणम् ॥ ५३
रथं तस्य ममामाद्य भुजमुद्यम्य दक्षिणम् । त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ।।
देवदानवगन्धर्यज्ञैश्च सह राक्षसै अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ५५
एष मे दक्षिणो बाहु. पञ्चशाग्य. समुद्यन । विधमिप्यति ते देहानात्मानं चिरोषितम्॥५६
श्रुत्वा हनुमतो वाक्यं गवणी भीमविक्रम. । भरतनयन. क्रोधादिदं वचनमब्रवीत् ।।
क्षिपं प्रहर नि.शकं स्थिरां कीर्तिमवाप्नुहि । नतम्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥५८
गवणस्य वच श्रुत्वा वायुमूनुर्वचाऽब्रवीत । प्रहृतं हि मया पूर्वमक्षं स्मर सुनं तव ।। ५९
एवमुक्तो महातेजा गवणो राक्षसेश्वर.। आजधानानिलसुतं नलेनोरसि वीर्यवान् ॥
स तलाभिहतम्तेन चचाल च मुहुर्मुहु । स्थित्वा मुहूर्त तेजस्वी स्थैर्यं कृत्वा महामतिः ॥६१
आजघानाभिसंक्रुद्धस्तलेनैवामरद्विपम् । नतम्तलेनाभिहतो वानरेण महात्मना ।। ६२
दशग्रीवः समाधूतो यथा भूमिचलेऽचल । संग्रामे तं नथा दृष्ट्वा रावणं तलताडितम् ॥ ६३
ऋषयो वानराः सिद्धा नेदुर्देवाः सहामुरैः। अथाश्चास्य महातेजा रावणो वाक्यमब्रवीत् ॥६४
साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः । रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥
धिगन्तु मम वीर्येण यस्त्वं जीवमि रावण । सकृत्तु प्रहरेदानी दुर्बुद्धे किं विकत्थमे ।। ६६
ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् । ततो मारुतिवाक्येन क्रोधम्तस्य तदाज्वलत् ॥६७
संरक्तनयनो यलान्मुष्टिमुद्यम्य दक्षिणम् । पातयामास वेगेन वानरोरसि वीर्यवान् ।।
हनुमान् वक्षसि व्यूढे संचचाल हतः पुनः । विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ॥ ६९
रथेनातिरथः शीनं नीलं प्रति समभ्यगात् । राक्षमानामधिपतिर्दशग्रीवः प्रतापवान् ।।