पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३०

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनषष्टितमः सर्गः ७७३

रोषेण महताविष्टः पूर्ववैरमनुस्मरन् । आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ।।
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः । स्वभावतेजोयुक्तस्य भूयन्तेजोऽभ्यवर्धत ।।
ततो रामो महातेजा रावणेन कृतव्रणम् । दृष्ट्वा प्लवंगशार्दू क्रोधस्य वशमेयिवान् ।।
तस्याभिचक्रम्य रथं सचक्र साश्वध्वजच्छत्रमहापताकम् ।
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुत्रैः॥
अथेन्द्रशत्रु तरसा जधान बाणेन वज्राशनिसंनिभेन ।
भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥
यो वज्रपानाशनिसनिपातान्न चुक्षुभे नापि चचाल राजा ।
स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ।।
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।
तेनाकवणे सहसा किरीटं चिच्छेद रक्षोऽधिपतेर्महात्मा ।
तं निर्विषाशीविषसंनिकाशं शान्तापिं सूर्यमिवाप्रकाशम् ।
गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ।।
कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् ।
तस्मात् परिश्रान्त इति व्यवम्यन्न त्वां शरैर्मृत्युवशं नयामि ।।
गच्छानुजानामि रणादितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।
आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ॥
स एवमुक्तो हतदर्पहर्षा निकृतचापासिंहताश्वसूतः ।
शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ।।
तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।
हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥
तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।
ससागराः सर्षिमहोरगाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे रावणाभिषेणनं नाम एकोनषष्टितमः सर्गः