पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४९

एतत् पृष्ठम् परिष्कृतम् अस्ति

७९२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम् ।
व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यक्षपतेर्वधाय ।
६२
तत् कुम्भकर्णस्य भुजप्रविद्धं शुलं शितं काञ्चनदामजुष्टम् ।
क्षिप्तं समुत्पत्य निगृह्य दोभ्यां बभत्र वेगेन सुतोऽनिलस्य ।।
कृतं भारसहस्रस्य शूलं कालायसं महत् । बभन्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥
शूलं भमं हनुमता दृष्ट्वा वानरवाहिनी । हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥
बभूवाथ परित्रम्तो राक्षसो विमुखोऽभवत्। सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः ॥
मारुति पूजयांचकुदृष्टा शूलं तथागतम् ।।
स तत्तदा भममवेक्ष्य शूलं चुकोप रक्षोऽधिपतिर्महात्मा ।
उत्पाट्य लकामलयात् म शृङ्गं जघान सुग्रीवमुपेत्य तेन ।।
स शैलशृङ्गाभिहतो विसंज्ञः पपान भूमौ युधि वानरेन्द्रः ।
तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ।।
तमभ्युपेत्याद्भुतघोरवीर्य स कुम्भकर्णो युधि वानरेन्द्रम् ।
जहार सुग्रीवमभिप्रगृह्य यथानिलो मेघमतिप्रचण्डः ॥
६९
स तं महामेघनिकाशरूपमुन्पाट्य गच्छन् युधि कुम्भकर्णः ।
रराज मेरुपतिमानरूपो मेयथाभ्युच्छिनघोरशृङ्गः ।।
ततस्तमुत्पाट्य जगाम धीरः संम्तूयमानी युधि राक्षमेन्द्रः ।
शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रह विस्मितानाम् ।।
७१
नतस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।
अस्मिन् हुने सर्वमिदं हृतं स्यात सराघवं मैन्यमितीन्द्रशत्रुः ।।
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततम्तनः । कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ॥
हनुमांश्चिन्तयामास मतिमान् मारुतात्मजः । एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ॥ ७१
यदै न्याय्यं मया कर्तुं तत् करिप्यामि सर्वथा । भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम् ॥
मया हते संयति कुम्भकर्ण महाबले मुष्टिविकीर्णदेहे ।
विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समम्ताः ।।
अथवा स्वयमप्येष मोक्ष प्राप्स्यति पार्थिवः । गृहीतोऽयं यदि भवेत् त्रिदशः सासुरोरगैः ॥७७