पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५१

एतत् पृष्ठम् परिष्कृतम् अस्ति

७०४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

चखाद रक्षांसि हरीन् पिशाचानृक्षांश्च मोहाधुधि कुम्भकर्णः ।
यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरीश्च मुख्यान् ।।
९६
एकं द्वौ त्रीन् बहून् क्रुद्धो पानरान् सह राक्षसैः । समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ॥
संप्रसवंस्तदा मेदः शोणितं च महाबलः । वध्यमानो नगेन्द्राग्रेभक्षयामास वानरान् ।।
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् । कुम्भकर्णा भृशं क्रुद्धः कपीन् खादन् प्रधावति।।
शतानि सप्त चाष्टौ च विंशत् त्रिंशत्तथैव च। संपरिष्वज्य बाहुभ्यां खादन् विपरिधावति॥१००
मेदोवसाशां णितदिग्धगात्रः कर्णावसक्तप्रथितान्त्रमालः ।
ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तामिरिव प्रवृद्धः ॥
तम्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः । चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ॥१०२
म कुम्भकर्णम्य शराशरीरे सप्त वीर्यवान् । निचवानाददे. बाणान् विसमर्ज च लक्ष्मणः ।।
भिद्यमानस्तदा तैम्तु विहे नत म गक्षमः । ततश्चुकोप बलवान् मुमित्रानन्दवर्धनः ।। १०४
अथास्य कवचं शुभ्रं जाम्बूनदमयं शुभन । प्रच्छादयामाम शरैः सन्ध्याग्वि'मारुन ||१०५
नीलाञ्जनचयप्रग्न्यैः शरैः काञ्चनभूपणैः । आच्छाद्यमानः शुशुभे मेधैः मृय इचांशुमान् ।।
ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् । मावजमेवं प्रोवाच वाक्यं मेघौघनिःम्बनम् ।।१०
अन्तकस्यापि क्रुद्धम्य भयदातारमाहवे । युभ्यता मामभीतेन ख्यापिता वीरना त्वया ॥ १०८
प्रगृहीतायुधस्येव मृत्योरिव महामृधे । तिष्ठन्नप्यग्रतः पृज्यः किमु युद्धप्रदायकः ॥
रावतगजारूढी वृनः सर्वामरैः प्रभुः । नैव शक्रोऽपि समरे स्थितपूर्वः कदाचन ।।