पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८८

एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनाशीतितमः सर्गः

ततः प्रवृत्तं सुमहत्तध्युद्धं रोमहर्षणम् । निशाचरैः प्लवङ्गानां देवानां दानवैरिव ॥ २
वृक्षशूलनिपातैश्च शिलापरिघपातनैः । अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः ।। ३
शक्तिखड्गगदाकुन्तैस्तोमरैश्च निशाचराः । पट्टसैर्भिण्डिपालैश्च निर्घातैश्च समन्ततः ।। ४
पाशमुद्गरदण्डैश्च निखातैश्चापरे तदा । कदनं कपिवीरणां चक्रुस्ते रजनीचराः ॥ ५
बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः । संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः ॥ ६
तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वलीमुखान् । नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः ।। ७
विद्रवत्सु तदा तेषु वानरेषु समन्ततः । रामस्तान् वारयामास शरवर्षेण राक्षसान् ।। ८
वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः । क्रोधानलसमाविष्टो वचनं चेदमब्रवीत् ॥ ९
क्वासौ रामः सुदुर्बुद्धिर्येन मे निहतः पिता । जनस्थानगतः पूर्वं सानुगः सपरिच्छदः ।। १०
अद्य गन्ताम्भि वैरस्य पारं वै रजनीचराः । सुहृदां चैव सर्वेषां निहतानां रणाजिरे ।। ११
हत्वा रामं सुदुर्बुद्धिं लक्ष्मणं च सवानरम् । तेषां शोणितनिष्यन्दैः करिष्ये सलिलक्रियाम् ॥ १२
एवमुक्त्वा महाबाहुर्युद्धे स रजनीचर: । न्यलोकयत तत् सर्वं बलं रामदिदृक्षया ॥ १३
आहूयमानः कपिभिर्बहुभिर्बलशालिभिः । युद्धाय स महातेजा रामादन्यं न चेच्छति ॥ १४
मार्गमाणस्तदा रामं बलवान् रजनीचरः । रथेनाम्बुदघोषेण व्यचरत्तामनीकिनीम् ॥ १५
दृष्ट्वा राममदरस्थं लक्ष्मणं च महारथम् । सघोषे पाणिनाहूय ततो वचनमब्रवीत् ॥ १६
निष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते । त्याजयिष्यामि ते प्राणान् धनुर्मक्तैः शितैः शरैः ।। १७
यत्तदा दण्डकारण्ये पितरं हतवान् मम । मदग्रतः स्वकर्मम्थं दृष्ट्वा रोषोऽभिवर्धते ॥ १८
दह्यन्ते भृशमङ्गानि दुरात्मन् मम राघव । यन्मयासि न दृष्टस्त्वं तस्मिन् काले महाहवे ॥ १९
दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह । काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः ।। २०
अद्य मद्बाणवेगेन प्रेतराङ्विषयं गतः। ये त्वया निहता वीराः सह तैश्च समेष्यसि ।। २१
बहुनात्र किमुक्तेन शृणु राम वचो मम । पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे ॥२२
अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे । अभ्यस्तं येन वा राम तेनैव युधि वर्तताम् ॥२३
मकराक्षवचः श्रुत्वा रामो दशरथात्मजः । अब्रवीत् प्रहसन् वाक्यमुत्तरोत्तरवादिनम् ।। २४
कत्थसे किं वृथा रक्षो बहून्यसदृशानि तु । न रणे शक्यते जेतुं विना युद्धेन वाग्बलात् ।।२५
चतुर्दश सहस्राणि रक्षसां त्वत्पिता च यः । त्रिशिरा दृषणश्चैव दण्डके निहता मया ॥ २६
स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः । भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुराः ॥ २७
रुधिरार्द्रमुखा हृष्टा रक्तपक्षाः स्वगाश्च ये । खे तथा वसुधायां च भ्रमिष्यन्ति समन्ततः ॥ २८