पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८९

एतत् पृष्ठम् परिष्कृतम् अस्ति

८३२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

राघवेणैवमुक्तस्तु खरपुत्रो निशाचरः। बाणौघानमुचत्तस्मै राबवाय रणाजिरे ।। २९
ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकघा । निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः ॥ ३०
तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा । रक्षसः खरपुत्रस्य सूनोर्दशरथस्य च ॥ ३१
जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा । धनुर्मुक्त: स्वनोत्कृष्टः श्रूयते च रणाजिरे ॥ ३२
देवदानवगन्धर्वाः किन्नराश्च महोरगाः। अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम् ॥ ३३
विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते परम् । कृतप्रतिकृतान्योन्यं कुरुतां तौ रणाजिरे ।। ३४
राममुक्तांस्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे । रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः ।। ३५
बाणौघैर्वितताः सर्वा दिशश्च प्रदिशस्तथा । संछन्ना वसुधा द्योश्च समन्तान्न प्रकाशते ॥ ३६
ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः ! अष्टाभिरथ नाराचैः सूतं विव्याघ राघवः ।। ३७
भित्त्वा शरैः रथं रामो स्थाश्वान् समपातयत् । विरथो वसुधां निष्ठन् मकराक्षो निशाचरः ।। ३८
तत्तिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना। त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम् ।। ३९
विभ्राम्य तु महच्छूलं प्रज्वलन्तं निशाचरः । स क्रोधात् प्राहिणोत्तस्मै राघवाय महाहवे ।। ४०
तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम् । बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः ।। ४१
स च्छिन्नो नैकधा शूलां दिव्यहाटकमण्डितः । व्यशीर्यत महोल्केव रामबाणार्दितो भुवि ।। ४२
तच्छूलं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा । साधु साध्विति मृतानि व्याहरन्ति नभोगताः ॥ ४३
तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः । मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥४४
स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः । पावकास्त्रं ततो रामः संदधे तु शरासने ॥ ४५
तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे। संछिन्नहृदयं तत्र पपात च ममार च ।।
दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् । लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ॥ ४७
दशरथनृपपुत्रबाणवेगैः रजनिचरं निहतं खरात्मजं तम् ।
ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज्रहतं यथा विकीर्णम् ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे मकराक्षवधो नाम एकोनाशीतितमः सर्ग:

अशीतितमः सर्गः
तिरोहितरावणियुद्धम्
मकराक्षं हतं श्रुत्वा रावणः समितिंजयः । क्रोधेन महताविष्टो दन्तान् कटकटापयन् ।।