पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
८६५
अष्टनवतितमः सर्गः


तलप्रहारमशनेः समानं भीमनिःस्वंनम् । तलप्रहारं तद्रक्षः सुग्रीवेण समुद्युतम् ॥ २८
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् । ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ।। २९
नोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा । स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥३०
ततो न्यपातयत् क्रोधाच्छङ्खदेशे महत्तलम् । महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ ३१
पपात रुधिरक्लिन्नः शोणितं च समुद्रमन् । स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ ३२
विवृत्तनयनं क्रोधात सफेनं रुधिराप्लुतम् । ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ३३
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् । करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ३४

तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।
बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥३५
विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।
बलं समस्तं कपिराक्षसानामुद्वृत्तगङ्गाप्रतिमं बभूव ॥३६

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहनस्रिकायां संहितायाम्

युद्धकाण्डे विरूपाक्षवधो नाम सप्तनवतितमः सर्ग:

अष्टनवतितमः सर्गः

महोदरवधः

हन्यमाने बले तूर्णमन्योन्यं ते महामृधे । सरसीव महाधर्मे सूपक्षीणे बभूवतुः ।। १
स्वबलस्य विघातेन विरूपाक्षवधेन च । बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः ॥ २
प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः । बभृवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम् ।।३
उवाच च समीपस्थं महोदरमरिंदमम् । अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता॥४
जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम् । भर्तृपिण्डस्य कालोऽयं निर्देष्टुं साधु युध्यताम् ।।५
एषमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रो महोदरः । प्रविवेशारिसेनां नां पतङ्ग इव पावकम् ।।६
ततः स कदनं चक्रे वानराणां महाबलः ! भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः ॥७
वानराश्च महामत्त्वाः प्रगृह्य विपुलाः शिलाः । प्रविश्यारिबलं भीमं जघ्नुस्ते रजनीचरान् ॥ ८
महोदरस्तु संक्रुद्धः शरैः काश्चनभूषणैः । चिच्छेद पाणिपादोरून् वानराणां महाहवे ॥ ९
ततस्ते वानराः सर्वे राक्षसैरर्दिता भृशम् । दिशो दश द्रुताः केचित्केचित्सुग्रीवमाश्रिताः॥ १०
प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम् । अभिदुद्राव सुग्रीवो महोदरमनन्तरम् ॥ ११