पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
८७४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

दीर्घायुषस्तु ये मर्त्यास्तेषां तु मुखमीदृशम् । नायं प्रेतत्वमापन्नो लक्ष्मणो लक्ष्मिवर्धनः ॥ २५
मा विषादं कृथा वीर सप्राणोऽयमरिंदमः । आख्यास्यते प्रसुप्तस्य स्नस्तगात्रस्य भूतले ॥ २६
सोच्छ्वासं हृदयं वीर कम्पमानं मुहुर्मुहुः । एवमुक्त्वा तु वाक्यज्ञः सुषेणो राघवं वचः ॥ २७
समीपस्थमुवाचेदं हनुमन्तमभित्वरन् । सौम्य शीघ्रमितो गत्वा शैलमोषधिपर्वतम् ।। २८
पूर्वं ते कथितो योऽसौ वीर जाम्बवता शुभः । दक्षिणे शिखरे तस्य जातामोषधिमानय ॥२९
विशल्यकरणीं नाम विशल्यकरणीं शुभाम् । सवर्णकरणीं चापि तथा संजीवनीमपि ।। ३०
संधानकरणीं चापि गत्वा शीघमिहानय । संजीवनार्थं वीरस्य लक्ष्मणस्य महात्मनः ।। ३१
इत्येवमुक्तो हनुमान् गत्वा चौषधिपर्वतम् । चिन्तामभ्यगमच्छ्रीमानजानंस्तां महौषधिम् ॥ ३२
तस्य बुद्धिः समुत्पन्ना मारुतेरमितौजसः । इदमेव गमिष्यामि गृहीत्वा शिखरं गिरेः ॥ ३३
अस्मिन् हि शिखरे जातामोषधीं तां सुखावहाम् । प्रतर्केणावगच्छामि सुषेणोऽप्येवमब्रवीत् ।।
अगृह्य यदि गच्छामि विशल्यकरणीमहम् । कालात्ययेन दोष: स्याद्वैक्लब्यं च महद्भवेत् ॥३५
इति संचिन्त्य हनुमान् गत्वा क्षिप्रं महाबलः । आसाद्य पर्वतश्रेष्ठं त्रिः प्रकम्य गिरेः शिरः ।।
फुल्लनानातरूगणं समुत्पाट्य महाबलः । गृहीत्वा हरिशार्दूलो हस्ताभ्यां समतोलयत् ॥३७
स नीलमिव जीमूतं तोयपूर्णं नभःस्थलात । आपपात गृहीत्वा तु हनुमाञ्शिखरं गिरेः ।। ३८
समागम्य महावेगः संन्यस्य शिखरं गिरेः । विश्रम्य किंचिद्धनुमान् सुषेणमिदमब्रवीत् ॥ ३९
ओषधिं नावगच्छामि तामहं हरिपुंगव । तदिदं शिखरं कृत्स्नं गिरेस्तस्याहृतं मया ।।४०
एवं कथयमानं तं प्रशस्य पवनात्मजम् । सुषेणो वानरश्रेष्ठो जग्राहोत्पाट्य चौषधीम् ।। ४१
विस्मितास्तु बभूवुस्ते रणे वानरराक्षसाः। दृष्ट्वा हनुमतः कर्म सुरैरपि सुदुष्करम ॥४२
ततः संक्षोदयित्वा तामोषधीं वानरोत्तमः । लक्ष्मणस्य ददौ नस्तः सुषेणः सुमहाद्युतेः ॥ ४३
सशल्यस्तां समाघ्राय लक्ष्मणः परवीरहा । विशल्यो विरुजः शीघ्रमुदतिष्ठन्महीतलात् ।। ४४
तमुस्थितं ते हरयो भूतलात् प्रेक्ष्य लक्ष्मणम् । साधु साध्विति सुप्रीताः सुषेणं प्रत्यपूजयन् ।।
एोह्येहीत्यब्रवीद्रामो लक्ष्मणं परवीरहा । सखजे स्नेहगाढं च बाष्पपर्याकुलेक्षणः ॥ ४६
अब्रवीच्च परिष्वज्य सौमित्रिं राघवस्तदा । दिष्ट्या त्वां वीर पश्यामि मरणात् पुनरागतम्॥४७
न हि मे जीवितेनार्थः सीतया चापि लक्ष्मण । को हि मे विजयेनार्थस्त्वयि पञ्चत्वमागते ॥
इत्येवं वदतस्तस्य राघवस्य महात्मनः । खिन्नः शिथिलया वाचा लक्ष्मणो वाक्यमब्रवीत् ॥ ४९
तां प्रतिज्ञा प्रतिज्ञाय पुरा सत्यपराक्रम । लघुः कश्चिदिवासत्त्वो नैवं वक्तुमिहार्हसि॥५०
न हि प्रतिज्ञां कुर्वन्नि वितथां साधवोऽनघ । लक्षणं हि महत्त्वस्य प्रतिज्ञापरिपालनम् ।। ५१