पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टोत्तरशततमः सर्गः ८८३

विस्फारयन् वै वेगेन बालचन्द्रनतं धनुः । उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ८ मातले पश्य संरब्धमापतन्तं रथं रिपोः । यथापसव्यं पतता वेगेन महता पुनः॥ ९ समरे हन्तुमात्मानं तथा तेन कृता मनिः । तदप्रमादमातिष्ठन् प्रत्युद्गच्छ रथं रिपोः ॥ १०तन् विध्वंसयितुमिच्छामि वायुर्मेघमियोस्थितम् । अविक्लवमसंभ्रान्तमव्यग्रहृदयेक्षणम् ॥ ११ रश्मिसंचारनियतं प्रचोदय ग्थं द्रुतम् । कामं न त्वं समाधेयः पुरंदररथोचितः ॥ १२ युयुत्सुरहमेकाग्नः म्मारये त्वां न शिक्षये। परितुष्टः स रामस्य तेन वाक्येन मातलिः ॥ १३ प्रचोदयामास रथं सुरमारथिमत्तमः । अपमन्यं ततः कुर्वन् रावणम्य महारथम् ॥ १४ चको त्क्षिप्तेन रजसा रावणं व्यवधानयत् । ततः क्रुद्धो दशग्रीवस्ताभ्रविस्फारितेक्षणः ॥ १५ स्थप्रतिमुखं रामं सायकैरवधूनयत् । धर्षणामर्पिनी रामो धैर्य रोपेण लम्भयन् ॥ १६ जग्राह मुमहावेगमैन्द्रं युधि शगमनम् । शरांश्च सुमहातेजाः सूर्यरश्मिसमप्रभान् ॥ १७ नदोपोढं महाघुद्धमन्योन्यवधकाड्रक्षिणोः । परम्पराभिमुग्योर्द्दप्तयोरिव सिंहयोः ॥ १८ नती देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । समेयुर्ट्टैरथं द्रष्टुं रावणक्षयकाङक्षिणः ॥ १९ समुत्पेतुरथोत्पाता दारुणा रोमहर्षणाः। रावणम्य विनाशाय राघवस्य जयाय च ॥ २० ववर्ष रुधिरं देवो रावणस्य ग्थोपरि । वाता मण्डलिनम्तीक्ष्णा ह्यपसन्यं प्रचक्रमुः ॥ २१ महद्गृध्रकुलं चास्य भ्रममाणं नभःस्थले । येन येन रथो याति तेन तेन प्रधावति ॥ २२ संध्यया चावृता लङ्का जपापुष्पनिकाशया । दृश्यने संपदीप्तेव दिवसेऽपि वसुंधरा ॥ २३ सनिर्धाता महोल्काश्च संप्रचेर्महाम्वनाः । विपादयंन्ते रक्षांसि रावणम्य तदाहिताः ॥ २४ रावणश्च यतस्तत्र संचचाल वसुंधरा। रक्षमां च प्रहरतां गृहीता इव बाहवः ॥ २५ ताम्राः पीताः सिताः श्वेताः पतिताः सूर्यरश्मयः । दृश्यन्ने रावणम्याङ्गे पर्वतस्येव धातवः ॥ गृधैरनुगताश्चान्य वमन्त्यो ज्वलनं मुग्वैः । प्रणेदुर्मुगमीक्षन्त्यः संरब्धमशिवं शिवाः ॥ २७ प्रतिकृलं बवौ वायृ रणे पांमून् समन् किरन । नम्य गक्षमराजम्य कुर्वन् दृष्टिविलोपनम् ॥ २८ निपेतुरिन्द्राशनयः सैन्ये चाम्य समन्ततः । दुर्विषह्यम्बना घोरा विना जलघरम्वनम् ॥ २९ दिशश्च प्रदिशः सर्वा बभूवुस्तिमिरावृताः । पांसुवर्षेण महना दुर्दर्श च नमोऽभवत् ॥ ३० कुर्वत्यः कलहं घोरं शारिकास्तद्रथ प्रति । निपेतुः शतशस्तत्र दारुणं दारुणास्ता. ॥ ३१ जघनेभ्यः स्फुलिङ्गाश्च नेत्रेभ्योऽक्षूणि संततम् । मुमुचुस्तस्य तुरगास्तुल्यमग्निं च वारि च ॥ एवंप्रकारा बह्ववः समुत्पाता भयावहाः । रावणस्य विनाशाय दारुणाः संप्रजज्ञिरे ॥ ३३ रामस्यापि निमित्तानि सौम्यानि च शुभानि च । बभूवुर्जयशंसीनि प्रादुर्भूनानि सर्वशः ॥३४ निमित्तानि च सौम्यानि राघवः स्वजयाय च । दृष्ट्वा परमसंहृष्टो हतं मेने च रावणम् ॥ ३५