पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

८८४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे ततो निरीक्ष्यात्मगतानि राघवो रणे निमित्तानि निमित्तको विदः । जगाम हर्ष च परां च निर्वृतिं चकार युद्धे बधिकं च विक्रमम् ॥ ३६ इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे शुभाशुभनिमित्तदर्शनं नाम अष्टोत्तरशततमः सर्ग:

नवोत्तरशततमः सर्गः रावणध्वजोन्मयनम् ततः प्रवृत्तं सुकरं रामरावणयोस्तदा। सुमहद्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ततो राक्षससैन्यं च हरीणां च महद्वलम् । प्रगृहीताहरणं निश्चेष्टं समतिष्ठत ॥ २ संप्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ । व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ ३ नानाप्रहरणैर्न्यग्त्रेर्भुजैर्विस्मितबुद्धयः । नम्थुः प्रेक्ष्य च संग्रामं नामिजघ्नुः परम्परम् ॥ ४ रक्षसां रावणं चापि वानराणां च राघवम् । पश्यनां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ५ तौ तु तत्र निमित्तानि दृष्ट्वा गवणराघवौ । कृतबुद्धी म्थिरामर्षौ युयुधाते ह्यभीतवत् ॥ ६ जेतव्यमिति काकुत्म्थो मर्तव्यमिति रावणः । धृतौ म्बवीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ ७ ततः क्रोधाद्दशग्रीवः शरान् संघाय वीर्यवान् । मुमोच ध्वजमुद्दिश्य राघवम्य रथे स्थितम् ॥ ८ ते शरास्तमनासाद्य पुरंदररथध्वजम् । रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ततो रामोऽभिसंकुद्धश्चापमायम्य वीर्यवान् । कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे ॥ १० रावणध्वजमुद्दिश्य मुमोच निशितं शरम् । महासर्पमिवासह्यं ज्वलन्तं म्वेन तेजसा ॥ ११ जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः । म निकृत्तोऽपनद्भूमौ रावणस्य स्थध्वजः ॥ १२ ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः। संप्रदीप्तोऽभवत् क्रोधादम(न् प्रदह निव ॥ १३ स रोषवशमापन्नः शरवर्ष महद्वमन् । रामम्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ॥ १४ ते विद्धा हरयस्तत्र नास्खवलन्नापि बभ्रमुः । बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ १५ तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा । भूय एव सुसंक्रुद्धः शरवर्ष मुमोच ह ॥ १६ गदाश्च परिघाश्चैव चक्राणि मुमलानि च । गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥ १७ मायाविहिनमेनत्तु शम्नवर्षमपातयत् । तुमुलं त्रासजनन भीमं भीमप्रतिस्वनम् ॥ १८ तद्वर्षमभवयुद्धे नैकशस्त्रमयं महत् । विमुच्य राघवस्थं समन्ताद्वानरे बले ॥ १९ सायकैरंतरिक्षं च चकाराशु निरन्तरम् । सहसशस्ततो बाणानश्रान्तहृदयोधमः ॥ २० मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना । व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ॥ २१ प्रहसन्निव काकुत्स्थः संदघे सायकाशितान् । स मुमोच ततो बाणान् रणे शतसहस्रशः ॥