पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


एनत्तु दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ॥ १५ एतत् पवित्रं परमं महापातकनाशनम् । अत्र पुर्वं महादेवः प्रसादमकरोत् प्रभुः ।। १६ अत्र राक्षसराजोऽयमाजगाम विभीषणः । एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ॥ १७ सुग्रीवस्य पुरी रम्या यत्र वाली मया इतः । अथ दृष्ट्वा पुरी सीता किष्किन्धां वालिपालिताम् ॥ १८ अब्रवीत् प्रश्रितं वाक्यं रामं प्रणयसाध्वसा । सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ॥ १९ अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता यहम् । गन्तुमिच्छे सहायोध्यां राजधानीं त्वयानघ ॥ २० एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् । एवमस्त्वति किष्किन्धां प्राप्य संस्थाप्य राघवः ।। विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह । ब्रूहि वानरशार्दूल सर्वान् वानरपुङ्गवान् ।। २२ स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया । तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।। अभित्वरस्व सुग्रीव गच्छामः प्लवगाधिप । एवमुक्तस्तु सुग्रीवो गमेणामिततेजसा ।। वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः । प्रविश्धान्त.पुरं शीघं तारामुद्वीक्ष्य सोऽब्रवीत ।। प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ॥ २६ त्वर त्वमभिगच्छामो गृह्य बानरयोषितः । आयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ॥२७ सुग्रीवस्य वचः श्रुत्या तारा सर्वाङ्गशोभना । आहूय चाब्रवीत् सर्वा वानरणां तु योषितः ॥ सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः । मम चापि प्रियं कार्यमयोध्यादर्शनेन च ॥ प्रवेशं चापि रामस्य पौरजानपदैः सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ॥ तारया चाभ्यनुज्ञाताः सर्वा वानरयोषितः । नेपथ्याविधिपूर्वं तु कृत्वा चापि प्रदक्षिणम् ॥ ३१ अध्यारोहन विमानं तत् सीतादर्शनकाङ्क्षया । ताभिः सहोन्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ॥ ऋष्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् । दृश्यतेऽसौ महान् सीते विद्युदिव तोयदः ॥ ३३ ऋष्यमूको गिरिवरः काश्चनैर्धातुभिर्वृतः । अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।। समयश्च कृतः सीते वधार्थं वालिनो मया । एषा सा दृश्यते पम्पा नलिनी चित्रकानना॥३५ त्वया विहीनो यत्राहं विललाप सुदुःखितः । अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी।। ३६ अत्र योजनाबाहुश्च कबन्धो निहतो मया । दृश्यते च जनस्थाने श्रीमान् सीते वनस्पतिः।।३७ यत्र युद्धं महद्वृत्तं तव हेतोर्विलासिनि । रावणम्य नृशंसम्य जटायोश्च महात्मनः ।। ३८ खरश्च निहता यत्र दूषणश्च निपातित: । त्रिशिराश्च महावीर्यो मया बाणैरजिह्नगैः ॥ ३९ एतत् तदाश्रमपदमस्माकं वरवर्णिनि । पर्णशाला तथा चित्रा दृश्यते शुभदर्शना ॥ यत्र त्वं राक्षसेन्द्रेण रावणेन हता बलात् । एषा गोदावरी रम्या प्रसन्नसलिला शुभा ॥ ४१