पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

कबन्धदर्शनं चैव पम्पाभिगमनं तथा । सुग्रीवेण च ते सख्यं यञ्च वाली हतस्त्वया ॥ १२
मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च । विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ॥ १३
यथा वा दीपिता लङ्का प्रष्टैर्हरियूथपैः । सपुत्रबान्धवामात्यः सबलः सहवाहनः ॥ १५
यथा विनिहतः संख्ये रावणो देवकण्टकः । समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ॥ १६
सर्वं ममैतद्विदितं तपसा धर्मवत्सल । अहमप्यत्र ते दद्मि वरं शत्रभृतां वर ॥ १६
अर्घ्यमद्य गृहाणेदमयोध्या श्वो गमिष्यसि । तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ॥ १७
बाढमित्येव संहृष्टो धीमान् वरमयाचन । अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रावाः ।। १८
फलान्यमृतकल्पानि बहूनि विविधानि च । भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ॥ १९
तथेति च प्रतिज्ञाते वचनात् समनन्तरम् । अभवन् पादपास्तत्र स्वर्गपादपसंन्निभाः ॥ २०
निष्फलाः फलिनश्वासन् विपुष्पाः पुष्पशालिनः । शुष्काः समग्रपत्रास्ते नगाश्वैवमधुस्रवाः ॥
सर्वतो योजना त्रीणि गच्छतामभवंम्तदा ।।

ततः प्रहृष्टाः प्लवगर्षभास्ते बहूनि दिव्यानि फलानि चैवम् ।
कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः स्वर्गजितो यथैव ॥ २२ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहत्रिकायां संहितायाम्

युद्धकाण्डे भरद्वाजामन्त्रण नाम सप्तविंशत्युत्ततरशततमः सर्गः ..





अष्टाविंशत्युत्तरशततमः सर्गः

भरतप्रियाख्यानम्

अयोध्या तु समालोक्य चिन्तयामास राघवः । चिन्तयित्वा हनूमन्तमुवाच प्लवगोत्तमम् ॥ १
जानीहि कञ्चित् कुशली जनो नृपतिमन्दिरे । शृङ्गिवेरपुरं प्राप्य गुहं गहनगोचरम् ॥ २
निषादाधिपतिं ब्रूहि कुशलं वचनान्मम । श्रुत्वा तु मां कुशलिनमरोगं विगतज्वरम् ॥ ३
भविष्यति गुहः प्रीतः स ममात्मसमः सखा । अयोध्यायाश्च ते मार्गं प्रवृत्तिं भरतस्य च ॥ ४
निवेदयिष्यति प्रीतो निषादाधिपतिर्गुहः। भरतस्तु त्वया वाच्यः कुशलं वचनान्मम ॥ ५
सिद्धार्थं शंस मां तस्मै सभार्यं सहलक्ष्मणम् । हरणं चापि वैदेह्या रावणेन बलीयसा ॥ ६