पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
एकोनत्रिंशदुत्तरशतनमः सर्गः


सर्वमेतन्महाबाहो यथावद्विदितं तव । त्वयि प्रतिप्रयाते तु यद्वृत्तं तन्निबोध मे ॥ ९ ॥
अपयाते त्वयि तदा समुदभ्रान्तमृगद्विजम् । परिद्यूनमिवात्यर्थं नद्वनं समपद्यत ॥ १० ॥
तद्धस्तिमृदितं घोरं सिंहव्याघ्रमृगायुतम् । प्रविवेशाथ विजनं सुमहद्दण्डकावनम् ॥ ११ ॥
तेषां पुरस्ताद्बलवान् गच्छतां गहने वने। निनदन् सुमहानादं विराधः प्रत्यदृश्यत ॥ १२ ॥
तमुत्क्षिप्य महानादमूर्ध्वबाहुमधोमुखम् । निखाते प्रक्षिपन्ति स्म नदन्तमिव कु्ञ्जरम् ॥ १३ ॥
तत् कृत्वा दुष्करं कर्म भ्रातरौ रामलक्ष्मणौ । सायादे शरभङ्गम्य रम्यमाश्रममीयतुः ॥ १४ ॥
शरभङ्गे दिवं प्राप्ते रामः सत्यपराक्रमः । अभिवाद्य मुनीन् सर्वाञ्जनस्थानमुपागमत् । १५ ॥
ततः पश्वाच्छूर्पणखा रामपार्श्वमुपागता । ततो रामेण संदिष्टो लक्ष्मणः सहसोत्थितः ॥ १६ ॥
प्रगृह्य खड्गं चिच्छेद कर्णनासं महाबलः । चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ १७ ॥
हतानि वसता तत्र राघवेण महात्मना। एकेन सह संगम्य रणे रामेण सङ्गताः ॥ १८ ॥
अह्नश्चतुर्थभागेन निःशेषा राक्षसाः कृताः। महाबला महावीर्यास्तपसो विघ्नकारिणः ॥ १९ ॥
निहता राघवेणाजौ दण्डकारण्यवासिनः । राक्षसाश्च विनिष्पिष्टाः खरश्च निहतो रणे ॥ २० ॥
ततस्तेनार्दिता बाला रावणं समुपागता। रावणानुचरो घोरो मारीचो नाम राक्षसः ॥ २१ ॥
लोभयामास वैदेहीं भूत्वा रत्नमयो मृगः । अथैनमब्रवीद्रामं वैदेही गृह्यतामिति ॥ २२ ॥
अहो मनोहरः कान्त आश्रमो नो भविष्यति । ततो रामो धनुष्पाणिर्धावन्तमनुधावति ॥ २३ ॥
स तं जघान धावन्तं शरेणानतपर्वणा । अथ सौम्य दशग्रीवो मृगं याते तु राघवे ॥ २४ ॥
लक्ष्मणे चापि निष्क्रान्ते प्रविवेशाश्रमं तदा । जग्राह तरसा सीतां ग्रहः खे रोहिणीमिव ॥ २५ ॥
त्रातुकामं ततो युद्धे हत्वा गृध्रं जटायुपम् । प्रगृह्य सीता सहसा जगामाशु स रावणः ॥ २६ ॥
ततस्त्वद्भुतसंकाशाः स्थिताः पर्वतमूर्धनि । सीतां गृहीत्वा गच्छन्तं वानराः पर्वतोपमाः॥ २७ ॥
ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् । प्रविवेश ततो लङ्कां रावणों लोकरावणः ॥ २८ ॥
तां सुवर्णपरिक्रान्ते शुभे महति वेश्मनि । प्रवेश्य मैथिली वाक्यैः सान्त्वनामास रावणः ॥ २९ ॥
तृणवद्भाषितं तस्य तं च नैर्ऋतपुङ्गवम् । अचिन्तयन्ती वैदेही अशोकवनिकां गता ॥ ३० ॥
न्यवर्तत ततो रामो मृगं हत्वा महावने। निवर्तमानः काकुत्स्थो दृष्ट्वा गृध्रं प्रविन्यथे ॥ ३१ ॥
गृध्रं हतं ततो दग्ध्वा रामः प्रियसखं पितुः । मार्गमाणस्तु वैदेही राघवः सहलक्ष्मणः ॥ ३२ ॥
गोदावरीमन्वत्तरद्वनोद्देशांश्च पुष्पितान् । आसेदतुर्महारण्ये कबन्धं नाम राक्षसम् ॥ ३३ ॥
ततः कबन्धवचनाद्रामः सत्यपराक्रमः । ऋश्यमूकं गिरिं गत्वा सुग्रीवेण समागतः ॥ ३४ ॥
तयोः समागमः पूर्व प्रीत्या हार्दो व्यजायत । भ्रात्रा निरस्त: क्रुद्धेन सुग्रीवो वालिना पुरा ॥ ३५ ॥
इतरेतरसंवादात् प्रगाढः प्रणयस्तयोः । रामस्य बाहुवीर्येण स्वराज्यं प्रत्यपादयत् ॥ ३६ ॥

==