पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
९१८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


वालिनं समरे हत्वा महाकायं महाबलम् । सुग्रीवः स्थापितो राज्ये सहितः सर्ववानरैः ॥ ३७ ॥
रामाय प्रतिजानीते राजपुत्र्याश्च मार्गणम् । आदिष्टा वानरेन्द्रेण सुग्रीवेण महात्मना ॥ ३८ ॥
दश कोट्यः प्लवङ्गानां सर्वाः प्रस्थापिता दिशः। तेषां नो विप्रकृष्टानां विन्ध्ये पर्वतसत्तमे ॥ ३८ ॥
भृशं शोकाभितप्तानां महान् कालोऽत्यवर्तत । भ्राता तु गृध्रराजस्य संपातिर्नाम वीर्यवान् ॥ ३९ ॥
समाख्याति स्म वसति सीतायां रावणालये। सोऽहं शोकपरीतानां दुःखं तज्ज्ञातिनां नुदन् ॥ ४० ॥
आत्मवीर्य समास्थाय योजनानां शतं प्लुतः । तत्राहमेकामद्राक्षसशोकवनिकां गताम् ॥ ४२ ॥
कौशेयवस्त्रां मलिनां निरानन्दां दृढव्रताम् । तया समेत्य विधिवत् पृष्ट्वा सर्वमनिन्दिताम् ॥ ४३ ॥
अभिज्ञानं च मे दत्तमर्चिष्मान् स महामणिः । अभिज्ञानं मणिं लब्ध्वा चरितार्थोऽहमागतः॥ ४४ ॥
मया च पुनरागम्य रामस्याक्लिष्टकर्मणः । अभिज्ञानं मया दत्तमर्चिष्मान् स महामणिः ॥ ४५ ॥
श्रुत्वा तु मैथिलीं हृष्टस्त्वाशशंसे च जीवितम् । जीवितान्तमनुप्राप्तः पीत्वामृतमिवातुरः ॥ ४६ ॥
उद्योजयिष्यन्नुद्योगं दध्रे कामं वधे मनः । जिघांसुरिव लोकान्ते सर्वाल्लोकान् विभावसुः ॥ ४७ ॥
ततः समुद्रमासाध नलं सेतुमकारयत् । अतरत् कपिवीराणां वाहिनी तेन सेतुना ॥ ४८ ॥
प्रहस्तमवधीनील: कुम्भकर्ण तु राधवः । लक्ष्मणो रावणसुतं स्वयं रामस्तु रावणम् ॥ ४९ ॥
स शकेण समागम्य यमेन वरुणेन च । महेश्वरस्वयंभूभ्यां तथा दशरथेन च ॥ ५० ॥
तैश्च दत्तवरः श्रीमानृषिभिश्च समागतः। सुरर्पिभिश्च काकुत्स्थो वरौल्लेभे परन्तपः ॥ ५१ ॥
स तु दत्तवरः प्रीत्या वानरैश्च समागतः । पुष्पकण विमानेन किष्किन्धामभ्युपागमत् ॥ ५२ ॥
तं गङ्गां पुनरासाद्य वसन्तं मुनिसंनिधौ । अविघ्नं पुष्ययोगेन श्वो रामं द्रष्टुमर्हसि ॥ ५३ ॥

  ततस्तु सत्यं हनुमद्वचो महन्निशम्य हृष्टो भरतः कृताञ्जलिः।
  उवाच वाणीं मनसः प्रहर्षिणीं चिरस्य पूर्णः खलु मे मनोरथः ॥५४ ॥


इत्यार्षे श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां सहितायाम्

युद्धकाण्डे हनूमद्भरतसंभाषणं नाम एकोनत्रिंशदुत्तरशततमः सर्ग: