पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
९२१
एकत्रिंशदुत्तरशततमः सर्गः


यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् । अवेक्षतां भवान् कोशं कोष्ठागारं पुरं बलम् ॥ ५५ ॥
भवतस्तेजसा सर्वं कृतं दशगुणं मया। तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ॥ ५६ ॥
मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः । ततः प्रहर्षाद्भरतमकमारोप्य राघवः ॥ ५७ ॥
ययौ तेन विमानेन ससैन्यो भरताश्रमम् । भरताश्रममासाद्य ससैन्यो राघवम्तदा ॥ ५८ ॥
अवतीर्य विमानाग्रादवतम्थे महीतले । अब्रवीञ्च तदा रामस्तद्विमानमनुत्तमम् ॥ ५९ ॥
वह वैश्रवणं देवमनुजानामि गम्यताम् । ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ॥ ६० ॥
उत्तरां दिशमागम्य जगाम धनदालयम् ॥

 पुरोहितस्यात्मसमस्य राधवो बृहस्पतेः शक्र इवामराधिपः ।
 निपीड्य पादौ प्ऱुथगासने शुभे सहैव तेनोपविवेश राघवः ॥ ६१ ॥


इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम

युद्धकाण्डे भरतसमागमो नाम त्रिंशदुत्तरशततमः सर्ग:


एकत्रिंशदुत्तरशततमः सर्गः

श्रीरामपट्टाभिषेकः


शिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । बभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥
पूजिता मामिका माना दत्तं राज्यमिदं मम । तद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥
धुरमेकाकिना न्यस्तामृषभेण बलीयसा। किशोरीव गुरुं भारं न वोढुमहमुत्सहं ॥ ३ ॥
वारिवेगेन महता भिन्नः सेतुरिव क्षरन् । दुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम्॥ ४ ॥
गतिं खर इवाश्वस्य हंसम्येव च वायसः । नान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ ॥
यथा चारोपितो वृक्षो जातश्चान्तनिवेशने। महांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ ६ ॥
शीर्यंत पुष्पिती भृत्वा न फल्गनि प्रदर्शयन् । तम्य नानुभवेदर्थं यस्य हेतो: स रोष्यते॥ ७ ॥
एषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि । यद्यम्मान्मनुजेन्द्र त्वं भक्तान् भृत्यान्न शाधि हि ॥ ८ ॥
जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ ॥
तूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः. । मधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १० ॥
यावदावर्तते चक्र यावती च वसुन्धरा । तायत्त्वमिह सर्वम्य म्वामित्वमनुवर्तय ॥ ११ ॥
भरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । तथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥
ततः शत्रुघ्नवचनानिपुणाः श्मश्रुवर्धकाः । सुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥