पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे

चक्रकृत्तास्थकमला गदासंचूर्णितोरसः।लाङ्गलग्लपितग्रीवा मुसलैभिन्नमस्तकाः॥४८॥
केचिञ्चैवासिना छिन्नास्तथान्ये शरपीडिताः।निपेतुरम्बरात्तूर्णं राक्षसाः सागराम्भसि ॥ ४९॥

  नारायणो बाणवराशनीभिर्विदारयामास धनुर्विमुक्तैः॥
  नक्तंचरान् मुक्तविघूतकेशान् यथाशनीभिः सतडिन्महाभ्राः॥ ५०
  भिन्नातपत्रं पतमानमस्त्रं शरैरपध्वस्तविनीतवेषम् ।
  विनिःसृतान्त्रं भयलोलनेत्रं बलं तदुन्मत्ततरं बभूव ॥५१॥
  सिंहार्दितानामिव कुञ्जराणां निशाचरणां सहकुञ्जराणाम् ।
  रखाश्च वेगाश्च समं बभूवुः पुराणसिंहेन विमर्दितानाम् ॥॥५२॥
  ते वार्यमाणा हरिबाणजालैः म्बबाणजालानि समुत्सृजन्तः ।
  धावन्ति नक्तंचरकालमेघा वायुप्रभिन्ना इव कालमेघाः ॥५३॥
  चक्रमहारैर्विनिकृत्तशीर्षाः संचूर्णिताङ्गाश्च गदाप्रहारैः ।
  असिप्राहारैर्द्विविधा विभिन्नाः पतन्ति शैला इव राक्षसेन्द्राः॥४४॥
  विलम्बमानैर्मणिहारकुण्डलैनिशाचरैर्निलबलाहकोपमै ।
  निपात्यमानैर्ददृशे निरन्तरं निपात्यमानैरिख नीलपर्वतैः ॥४५॥


इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहस्रिकायां संहितायाम्

उत्तरकाण्हे मालिवधो नाम सप्तमः सर्ग:



अष्टमः सर्गः

सुमाल्यादिनिग्रहः

हन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः।माल्यवान् संनिवृत्तोऽथ वेलामेत्य इवार्णवः॥१
संरक्तनयनः कोपाञ्चलन्मौलिर्निशाचरः। पद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥२॥
नारायण न जानीषे क्षात्रधर्म पुरातनम् । अयुद्धमनसो भीतानस्मान् हंसि यथेतरः ॥३॥
पराङ्मुखवध पापं यः करोत्यसुरेतरः । स हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम्॥४॥
युद्धश्रद्धाथवा तेऽस्ति शङ्खचक्रगदाधरः । अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव॥५॥
माल्यवन्तं स्थितं दृष्ट्वा माल्यन्तमिवाचलम् । उवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ६
युष्मचो भयभीतानां देवानां वै मयाभयम् । राक्षसोत्सादनं दत्तं तदेतदनुपा श्यते ॥७॥
प्राणैरपि प्रियं कार्य देवानां हि सदा मया। सोऽहं वो निहनिष्यामि रसातलगतानपि ॥ ८