पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१० सर्ग:]
67
एवं वदन्तीं तो रामः प्रत्युवाचाथ मैथिलीम्


 अय जगतो घर्मसारत्वात् सर्वप्रयासेनापि स एव संपाद्य इत्याह - आत्मानमित्यादि । देहत्रयमित्यर्थः । निपुणैः - समर्थैः । सुखमिति । सुखसाधनधर्म इति यावत् ॥ ३१ ॥

नित्यं शुचिमतिः, [१]सौम्य ! चर धर्म तपोवने ।
सर्व हि विदितं तुभ्यं त्रैलोक्यमपि तत्वतः ॥ ३२ ॥

 उपसंहरति धर्मबोधनं – नित्यमित्यादि । त्रैलोक्यमपीति । त्रिलोकवर्तिजापुमर्थापुमर्थतत्साधनकलाप इत्यर्थः ॥ ३२ ॥

[२]स्त्रीचापलादेतदुदाहृतं मे
 धर्म च वक्तुं तव कः समर्थः ।
विचार्य बुद्ध्या तु सहानुजेन
 यद्रोचते तत्कुरु मा चिरेण ॥ ३३ ॥

 इत्या में श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे नवमः सर्गः




 अथ विनयार्थवादः - स्त्रीत्यादि । चिरेणेति विभक्ति- प्रतिरूपकमव्ययम् । विलम्बो मास्तु इत्यर्थः । लीला (३३) मानः सर्गः ॥ ३३ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे नवमः सर्गः




दशमः सर्गः

[रक्षोवधसमर्थनम् ]

वाक्यमेतत्तु वैदेखा व्याहृतं भर्तृभक्तया ।
श्रुत्वा [३] संवर्धितो रामः प्रत्युवाचाथ [४]मैथिलीम् ॥ १॥



  1. सम्यक् ङ.
  2. सर्व हि तुभ्यं विदितं' इति चेत् किमर्थमुच्यत इत्यत्राह स्त्रीचापलादिति ॥
  3. धमें स्थितो-डङ, झ.
  4. जानकीम् ङ.