पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
78
[अरण्यकाण्ड:
आश्रममण्डलवास:



[१]चित् परिदशान् मासान् एकं संवत्सरं क्वचित् ।
क्वचिच्च चतुरो मासान् पञ्च षट् चापरान् क्वचित् ॥ २४ ॥
अपरत्राधिकं मासादध्यर्धमधिकं क्वचित् ।
त्रीन् मासान् अष्ट मासांश्च राघवो न्यवसत् सुखम् ॥ २५ ॥

 एवं एकत्र वासाभावादेव क्वचिसरिदशानित्यादि । संख्य- याव्ययासन्न’ति समासः। 'बहुव्रीहौ संख्येये' इति डच् समासान्तः।




  1. ' राघव: - रामः कचिदाश्रमे परिदशान्- परिगता: दश येषां ते परिदशा:-त्रयोदशमासान्त्यिर्थः --वचिदाश्रमे चतुरो मासान्, कचित् पञ्च मासान्, क्वचित् घण्नासान्, कचिदपरान्- षड्योऽन्यान् सप्तमासान् सुवेन्यवमत। 'पञ्च षट् च तथा क्वचित् ' इति पाठे तथा पुनः क्वचित् षण्मासानित्यर्थः । परिदशानित्यत्र चतुर्दश-मासा नेत्यर्थ: । अपरत्राश्रमे म.सादविकं सुख न्यवसत्। अधिकशब्देनात्र मासचतुर्थांशो विवक्षितः,
    एक्रमासं मासपादं चेत्यर्थ: । 'अपरत्राधिकं मास' इति पाठे मासं अधिकं तत्पादं.चेत्यर्थः । अपिशब्दः सर्वत्र मासानु कर्षणार्थ: । क्वचिदाश्रमे अर्धमधिकं च न्यवसत्,पादोनमासमित्यर्थ । तथा चैतदव्यवहितपूर्वाश्रमवासदिनैवौं मासौ संवृत्तौ । एकत्र--सपाइमास: अपरत्र पादोनमास इत्याहत्य मासद्वयसंभवात् । ‘अध्यर्धमधिकं कचित् 'इति पाठे अध्यर्थ-अर्घाधिकं - अर्धमास धिकमित्यर्थः । अधिकं - पूर्वोक्तपादमास त्मकाधिकं,तथा च त्रिनगदमासमित्यर्थः । कचित् त्रीन् मासान् व्यवसत्, कचिदष्टमास न् व्यवसत्,एवं षष्टिः मासा: सिद्धा: । केचिदाहु: - परिदशान्-दशाविकानिति वक्ष्यमाणेष्वष्टसु स्थानेषु अन्वेति । तथा चायमर्थ:-एवं संवत्सरं क्वचिदित्यत्र द्वाविंशतिमासानित्यर्थः । कचिच्च चतुरो मासानित्यत्र चतुर्दशमासानित्यर्थः । पञ्च षट् चापरान् कचिदित्यत्र कचित्क्व
    पञ्चदशमासान्, कचित् षोडशमासानित्यर्थः । अपरानधिकं -मासादप्यर्धमधिकं
    कचिदित्यत्र प्रथमाधिकशब्दः अर्धमासरूपाधिकांशपरः । तथा च अपरान् परिदशान् अधिकं चेत्यन्वये अर्वाधिकदशमासानित्यर्थः । मासादप्यर्धमित्यादेः अयमर्थः --कचित् परिदशान् मासान्, तदुपरि मासादधिकमर्थमपि चेति, तथा चार्षाधिकैकादश-मासानित्यर्थ: । त्रोन् मासानष्टमासांश्चेत्यत्र त्रयोदशमासान अष्टादशमासांश्चेत्यर्थः । तथा च विंशत्युत्तरशतमासा लब्धाः - इति । तस्मिन् पक्षे प्राथमिकक्कचित्पदमास-पदानर्थक्यं, पूर्वग्रन्थविरोध इत्यादि द्रष्टव्यम् - गो. वस्तुतस्तु, "यथासौकर्य अत्र कतिपयमासान् तत्र कतिपयमासान् उवास' इति लोकोक्तिरीत्यनुसरणे न कस्यापि शस्थावकाश ते भाति ॥