पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
80
[अरण्यकाण्ड:
आश्रममण्डकवास:



[१] प्रसादात् तत्रभवतः सानुजः सह सीतया ।
अगस्त्यमभिगच्छेयं अभिवादयितुं मुनिम् ॥ ३२ ॥

 तत्रभवतः- पूज्यस्य ॥ ३२ ॥

मनोरथो महानेषः हृदि मे परिवर्तते ।
यद्यहं तं मुनिवरं शुश्रूपेयमपि स्वयम् ॥ ३३ ॥

 मनोरथस्याभिनयः – यद्यमित्यादि ॥ ३३ ॥

इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः ।
सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥ ३४ ॥
अहमध्येतदेव त्वां वक्तुकामः सलक्ष्मणम् ।
अगस्त्यमभिगच्छेति सीतया सह, राघव ! ॥ ३५ ॥

 एतदेवेत्येतच्छब्दार्थः - अगस्त्यमित्यादि ॥ ३५ ॥

दिष्टया त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् ।
अहमाख्यामि ते, [२] वत्स ! यत्रागस्त्यो महामुनिः ॥ ३६॥

 अस्मिन्नर्थे इति । मदुपदिदिक्षितार्थे इत्यर्थः ॥ ३६॥

योजनादाश्रमादसात् अभि चत्वारि वै ततः ।
दक्षिणेन महान् श्रीमान् अगस्त्यभ्रातुराश्रमः || ३७ ॥

 योजनादाश्रमादस्मात् अभि चत्वारि वै ततः' इति पाङ्कः [३]। अस्मादाश्रमात् योजनादमि-अधिकं चत्वारि वै योजनानि पञ्च



  1. प्रसादार्थ-ड.
  2. राम-ङ, ज.
  3. योजनान्याश्रमादस्मात् तथा (अभि) (याहि) चत्वारि वै ततः' इति अस्मादाश्रमात् दक्षिणेन तथेति इस्तेन निर्देश: । चत्वारि योजनानि अभियाहीति शेष:- गो.