पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२. सर्ग: ]
93
ऋषिणाऽप्यभ्यनुज्ञाताः विविशुस्ते तदाश्रमम्



स प्रविश्य मुनिश्रेष्ठं तपसा [१] दुष्प्रधर्षणम् ।
कृताञ्जलिरुवाचेदं [२] रामागमनमञ्जसा ।
यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य संमतः ॥ ६॥

 संमतः - इष्टः ।। ६ ।।

 [३]पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च ।
प्रविष्टावाश्रमपदं सीतया सह [४] भार्यया ॥ ७ ॥
द्रष्टुं भवन्त [५] मायातौ शुश्रूषार्थ [६] मरिन्दम
यदत्रानन्तरं [७] तवं आज्ञापयितुमर्हसि ॥ ८ ॥

 द्रष्टुं, दर्शनानन्तरं कियत् कालं शुश्रूषार्थं-सेवार्थं च आयातौ । अनन्तरं तत्त्वं- इतिकर्तव्यतत्त्वमित्यर्थः ॥ ८ ॥

ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् ।
वैदेहीं च महाभागां इदं वचनमब्रवीत् ॥ ९ ॥
दिष्टया रामः चिरस्याद्य द्रष्टुं मां समुपागतः ।
मनसा कांक्षितं ह्यस्य [८] मयाऽभ्यागमनं प्रति ।। १० ।।

 अस्याभ्यागमनं प्रति - उद्दिश्य ।। १० ।।

गम्यतां सत्कृतो रामः सभायः सहलक्ष्मणः |
प्रवेश्यतां समीपं मे [९] किं चासौ न प्रवेशितः ॥ ११ ॥



  1. थोतितप्रभम् - ङ.
  2. वचनं व्यक्तया गिरा-ङ.
  3. पुत्रो दशरथस्यासौ रामो नाम महायशाः । सह भ्रात्राऽऽभमपदं -ङ
  4. भार्ययेति औचित्यात् राम एवान्वेति । प्रथमान्तपाठे तु नक्लेश: ॥
  5. मायातः- ङ.
  6. मरिन्दम:
  7. सरवं-तस्य भावं- प्रकारम् - गो. तत् त्वं इति वा पदम् ॥
  8. मवाऽध्यागमनं- ङ.
  9. प्रीत्यतिशयजन्य- रह-किवेत्यादि । रामस्य निर्निशेधत्वाच |