पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२ सर्ग:]
97
जगृड्ड: परमप्रीताः तस्य पादौ तु ते त्रयः



एवमुक्ता महाबाहुः अगस्त्यं सूर्यवर्चसम् ।
 [१]जग्राह परमप्रीतः तस्य पादौ परंतपः ॥ २३ ॥

अभिवाद्य तु धर्मात्मा तस्थौ [२] रामः कृताञ्जलिः ।
सतिया सह वैदेद्या [३].तदा रामः सलक्ष्मणः ॥ २४ ॥

 [४]प्रतिजग्राह काकुरस्थं अर्चयित्वाऽऽसनोदकैः ।
कुशलप्रश्नमुक्ता च ह्यास्यतामिति चाब्रवीत् ॥ २५ ॥

 अर्चयित्वा प्रतिजग्राहेति, स्वीयतयेति शेषः ॥ २५ ॥

अग्निं हुत्वा प्रदायार्घ्य अतिथीन् प्रतिपूज्य च ।
वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ । २६ ॥

 अर्चयित्वेत्यायुक्तार्थस्यैव विस्तरेणोपदेशः – अमिं हुत्वेत्यादि । अतिथीन् - रामादीन् ॥ २६ ॥

प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः ।

उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् || २७ ।।

 आसीनमिति | पश्चादासनिमित्यर्थः ॥ २७ ॥

[५]अग्निं हुत्वा प्रदायार्घ्य अतिथिं प्रतिपूजयेत् ।



  1. जग्राहापततस्वस्य-ह
  2. रामः अभिवाद्य तस्थावित्यन्वयः- गो.
  3. आराम:- सर्वाभिरामदाता रामः- रा.
    योगरूढिभ्यां रामशब्दद्वयापौनरुक्तयम्-ति. ती
  4. प्रतिगृह्ण च-ङ.
  5. इदमर्धे मास्ति-ङ. ज.