पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
98
[अरण्यकाण्ड:
अगस्त्यसन्दर्शनम्



[१]अन्यथा खलु, काकुत्स्थ ! तपस्वी समुदाचरन् ।
दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ २८ ॥

 किमुवाचेत्यतः, धर्ममूलत्वात् जगतः प्रकृतं धर्ममेव कर्तव्यमुप- दिशतीत्याह – अमिं हुत्वेत्यादि । वैश्वदेवहोमं कृत्वेत्यर्थः । अन्यथा समुदाचरन् इति । वैश्वदेवपूजनं अतिथिपूजनं च अकुर्वन् इत्यर्थः । दुःसाक्षी - कूटसाक्षी ॥ २८ ॥

राजा सर्वस्य लोकस्य धर्मचारी महारथः ।
पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः ।। २९ ।।

 एवं उपदेशः, बालोऽपि राजा सन् धार्मिकोऽपि अतिथित्वेन प्राप्ततः पूजनीयोऽद्य, अतः परं त्वयैव आराघनीयोऽपीत्येतदर्थः ॥ २९ ॥

एवमुक्ता फलैर्मूलैः पुष्पैरन्यैश्च [२]राघवम् ।
पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ ३० ॥
इदं दिव्यं महच्चापं हेम [३]वज्रविभूषितम् ।
वैष्णवं, पुरुषव्याघ्र ! निर्मितं विश्वकर्मणा ॥ ३१ ॥

 हेम्ना वज्रेण-रत्लेन च विभूषितं तथा । वैष्णवं धनुरिति । परशुरामात् गृहीत्वा वरुणहस्ते दत्तं यत् रामेण तदेव वरुणादादाय महेन्द्रः अगस्त्ये निक्षिप्तवानित्यवगन्तव्यम्,न तु विश्वकर्मनिर्मितं



  1. एवं क्षत्रिवपूजाऽनुचितेत्याशङ्कां समाधित्सुः प्रकृतं धर्ममुवाचेत्याह-
    अन्यथेति-ति. अयं रामव्याजेन सीतां प्रत्युपदेशः । धर्मकोविदमित्युक्तस्य रामस्य
    हि नेदं वक्तव्यम् । अत एव सीता रावणं सत्करिष्यति-गो.
  2. पार्थिवम् - ङ.
  3. रत्न--ङ.