पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
100
[अरण्यकाण्ड:
अगस्त्यसन्दर्शनम्



एवमुक्ता महातेजाः समस्तं तद्वरायुधम् ।
[१]दत्वा रामाय भगवान् अगस्त्यः पुनरब्रवीत् ॥ ३६ ।।

 इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे द्वादशः सर्गः




 वरायुधं--वरस्य विष्णोः आयुषं, उत्तमायुधमित्यपि ॥ ३६ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे द्वादशः सर्ग:





  1. एतदनन्तरं-ड. झ. पुस्तकयोरेवमधिकपाठो दृश्यते :-
    (ततो रामं महाबाहुं महर्षिरिदमब्रवीत् - झ.) सुखं स्वप महाबाहो ! ससीत:
    सहलक्ष्मणः । रविरस्तंगतः सौम्य ! सन्ध्याकालोऽप्युपागमत् ॥ एते निशाचरा
    राम ! निलीना मृगपक्षिणः । नगाभ्रेषु भृशं लीनाः दृश्यन्ते सुसमाहिताः ॥ नैशेन तमसा व्याप्तमप्रकाशं नभःस्थलम् । उपास्य पश्चिमां सन्ध्यां रामः सौमित्रिणा सह
    सुष्वाप रजनीमेकां पूजितः परमर्षिणा । एवमुक्तो महाबाहुरगस्त्येन महात्मना ॥
    अभिवाद्य महात्मानं अगस्त्यमृषिसत्तमम् ॥सुखोषितस्तदा रामः सन्ध्यामन्वास्य सानुजः॥
    कृतपूर्वाह्निकस्तस्थौ स्नात्वा हुतहुताशनः । लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ॥
    उपागच्छदमेयात्मा अगस्त्यं सूर्यवर्चतम् ।स दृष्ट्वा राघवं श्रीमान् अगस्त्यः संयताञ्जलिम्॥
    प्रतिपूज्य यथान्यायमिदं वचनमब्रवीत्। कच्चित्सुखा निशा राम ! व्यतीता रघुनन्दन ||
    तव सभ्रातृ भार्यस्य ममाश्रमपदे शुभे । अगस्त्येनैवमुक्तस्तु काकुत्स्थो वाक्यमब्रवीत् ॥
    मानिताश्च यथान्यायं त्वया पूज्येन पूजिताः । शयनासनदानेन भोजनाच्छादनैः शुभैः ॥
    राज्ञो दशरथस्यैव पुरस्थान्तःपुरे यथा । सुखोषिताः स्म भगवन् ! सर्वकामैरुपस्थिताः ||
    ( उपविश्याप्यगस्त्यस्तु निषीदध्वमुवाच ह । सर्वानेवाभ्यनुज्ञाप्य ये तत्रासन् समागताः ।
    झ.) सुखोपविष्टे रामे तु सहसीते सलक्ष्मणे । स तेन ऋषिसङ्केन अगस्त्यो वाक्यमब्रवीत् ॥
    कालोऽयं गतभूयिष्ठ: य: कालस्तव राघव ! समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥
    तीर्णप्रतिश: काकुत्स्थ ! सुखं राम ! निवत्स्यसि । धन्यस्ते जनको राम! स राजा रघु-
    नन्दन ! यस्त्वया ज्येष्ठ पुत्रेण ययातिरिव तारितः।एवमुक्तस्ततो राम: प्रत्युवाच कृताञ्जलिः॥
    प्रीतः प्रीततरं वाक्यं प्रत्युवाच महायशाः । धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः ॥
    श्रीयमाणस्य सुप्रीतः नास्ति धन्यतरो मम । मया न तारितो राजा स्वगुणैरेव तारितः ॥
    स्वर्ग दशरथ: प्राप्तः स्वकृतैः पुण्यकर्मभिः । अयं तु देशो निखिल: सर्व एव महातपः ॥