पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
108
[ अरण्यकाण्ड:
जटायुस्सक्रमः



तं दृष्ट्वा तौ महाभागौ [१]वटस्थं रामलक्ष्मणौ ।
[२]मेनाते राक्षसं पक्षि ब्रुवाणौ को भवानिति ॥ २ ॥

 तं पक्षि-पक्षिणमिति यावत् । राक्षसं मेनाते-विज्ञातवन्तौ । अथ तं पक्षि राक्षसं ब्रुवाणौ तौ, को भवान् ? इति पप्रच्छतुरिति शेषः ॥ २ ॥

स तौ मधुरया वाचा [३] सौम्यया प्रीणयन्निव ।
उवाच, वत्स ! मां विद्धि वयस्यं पितुरात्मनः ॥ ३ ॥

 आत्मनः पितुरिति-रामस्य तव पितुरित्यर्थः ॥ ३ ॥

स तं पितृसखं [४]बुद्धा पूजयामास राघवः ।
स तस्य कुलमव्यग्रं [५]अथ पप्रच्छ नाम च ॥ ४ ॥

 अथ तस्येति-पक्षिण इत्यर्थः ॥ ४ ॥

रामस्य वचनं श्रुत्वा [६] [७]. सर्वभूतसमुद्भवम् ।
आचचक्षे द्विजस्तस्मै [८]कुलमात्मानमेव च ॥ ५ ॥

 रामस्य वचनं श्रुत्वेति-वंश नाम प्रश्नविषयकं वचनमित्यर्थः । आत्मानं-आत्मनाम चेत्यर्थः । सर्वभूतसमुद्भवं आचचक्षे इति प्रसना- दिति शेषः । आत्मानं- आत्मना वेत्यर्थः ॥ ५ ॥



  1. वनस्थं-ङ. ज.
  2. को भवानिति बुवाणौ-पृच्छन्तौ तौ तं पक्षि राक्षसं मेनाते इति वाऽन्वयः ।
    प्रश्नभावनयोः समकालत्वात,राक्षसत्वसंशयस्य पाश्चात्यत्वाद्वा एवमुक्तिः ।
  3. स्निग्धया- ङ.
  4. मत्वा - ङ. ज.
  5. अपितृसखत्वज्ञानात् अव्यग्रं- अनाकुलं यथा तथा पप्रच्छ ।
  6. सर्वभूतसमुद्भवं-सृष्टिप्रकार मिति यावत् ।
  7. पादयो-विपरिणाम:-ड.. झ
  8. पादयो-विपरिणाम:-ड.. झ.