पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्ग:]
116
प्राप्य पचवटी रामो हृष्टः सौमित्रिवीत्



जगाम तां पञ्चवटीं सलक्ष्मणः
रिपून दिधक्षन् [१] शलभानिवानलः ।। ३६ ।।

 इत्यायें श्रीमद्रामायणे बाल्मीकीये अरण्यकाण्डे चतुर्दश: सर्ग:




 सीतां परिदायति । रक्षणार्थमिति शेषः । ताल (३६) मानः सर्गः ॥ ३६ ।।

 इति श्रीमहामायणामृतकतकटीकायां अरण्यकाण्डे चतुदशः सर्गः



पञ्चदशः सर्गः

[पञ्चवटी निवासः ]


ततः पश्चवटीं गत्वा नानाव्यालमृगायुताम्
उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसं सौमित्रि [२] दीप्ततेजसम् ।। १ ।।

 अथ पञ्चवटयां आश्रमनिर्माणपूर्वं वासः । ततः पञ्चवटी- मित्यादि । “ व्यालः श्वापदसर्पयोः " । मृगाः-हरिणादयः ॥ १ ॥

आगताः स्म यथोद्दिष्टं [३]यं देशं मुनिरब्रवीत् ।
अयं पञ्चवटीदेशः सौम्यः पुष्पित [४]पादपः || २ ||

 यं देशममुं मुनिरब्रवीत् यथोद्दिष्टं तं देशमिति योजना ॥ २ ॥

सर्वतः चार्यतां दृष्टिः कानने, निपुणो ह्यसि ।

 दृष्टिः चार्यतामिति-प्रेक्ष्यतामिति यावत् । निपुणः इति । आश्रमोचितस्थलपरिज्ञान इति शेषः ॥ २१/२ ॥



  1. सवनानि पालयन्- ङ., च.
  2. प्रति 'रामं दशरथं विद्धि' इति सुमित्रानियोगेन
    रामकैययुक्तम् कैयोंचित रेशलामेन सन्तुष्टमित्यर्थः - गो.
  3. अमुं देशं महर्षिणा-ङ.
  4. काननः-टु