पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
130
अरण्यकाण्ड:
हेमन्तवर्णनम्



न तेऽम्बा [१] मध्यमा [२]तात ! गर्हितव्या
[३]कथंचन ।
तामेवेक्ष्वाकुनाथस्य [४]भरतस्य कथां कुरु ॥ ३७ ॥

 मध्यमेति । व्याकृतचरः || ३७ ॥

 [५].निश्चिताऽपि हि मे बुद्धिः वनवासे दृढव्रता ।
भरतस्नेहसंतप्ता [६] बालिशीक्रियते पुनः ॥ ३८ ॥

 निश्चिता- निश्चितस्वभावा-कदापि कुत्रापि संशयरहिता । बालिशीक्रियते -[-च्व्यन्तः, अबालिशस्वभावाऽपि तत्स्वभावा संपाद्यते; स्नेहेनेति शेषः ॥ ३८ ॥

संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ।
हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥ ३९ ॥
कदा न्वहं समेष्यामि भरतेन महात्मना ।
शत्रुघ्नेन च वीरेण [७] त्वया च, रघुनन्दन ! ॥ ४० ॥

 तमेव स्नेहं प्रकाशयति — संस्मरामीत्यादि ।। ३९-४० ॥

इत्येवं || विलपंस्तत्र प्राप्य गोदावरी नदीम् ।
चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥ ४१ ॥



  1. मध्यमा — सर्वदशरथपत्न्यपेक्षया, कथञ्जन प्रासङ्गिककथायामपि मध्यमाम्बेति स्वाभिमानयोतनाय - गो. शिष्टं अन्यत्र द्रष्टव्यम् ।
  2. वत्स-ङ.
  3. कदाचन-उ. ज
  4. इक्ष्वाकुनाथस्य – राजनि स्वर्ग गते, अस्मासु च वनं गतेषु
    पूर्वतरास्मत्कुलमर्यादास्थापकस्य- गो.
  5. सुनिश्चिताऽपि - ङ
  6. दुर्बलीक्रियते-प्रतिज्ञातरणात् पूर्वमेव भरतदर्शनेऽतीवोत्कण्ठा जायते ममेति भावः ।
  7. इदानीं केवलं त्वया समेतोऽहं, त्वया तैश्च कदा समेष्यामीति भावः ।