पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
140
[अरण्यकाण्ड
सूर्यणखाविरूपणम्



एनां विरूपामसती करालां निर्णतोदरीम् ।
वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ।। १५ ।।
अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ।
त्वया सह चरिष्यामि [१] [२]निःसपत्ना यथासुखम् ।। १६

 पश्यतस्तव इति अनादरे षष्ठी ॥ १६ ॥

इत्युक्ता मृगशाबाक्षीं अलातसदृशेक्षणा ।
अभ्यधावत् सुसंक्रुद्धा महोल्का रोहिणीमिव ॥ १७ ॥
तां मृत्युपाशप्रतिमां आपतन्तीं महाबलः ।
[३][४] निगृह्य रामः कुपितः ततो लक्ष्मणमब्रवीत् ॥ १८ ॥

 निगृह्येति । वाचेति शेषः ॥ १८ ॥

क्रूरैः अनार्यैः, सौमित्रे ! परिहासः कथञ्चन ।
न कार्यः, पश्य वैदेहीं कथंचित् सौम्य ! जीवतीम्
इमां विरूपामसतीं अतिमत्तां महोदरीम्
राक्षसी, पुरुषव्याघ्र ! विरूपयितुमर्हसि ॥ २० ॥

 (अनार्यैः परिहासो न कार्यः इत्यत्र अनुभवमव प्रमाणयति पश्य वैदेहीमिति। भक्षयितुमुद्युक्तां, अस्मत्कृतपरिहासदोषादिति शेषः वस्तुतस्तु – रामस्य इदमेव मूलाविद्यायां माया बीजावेश परिहासानृतवच सर्वानर्थमूलमिति सुस्पष्टम् । कथंचिदित्यादि । हे सौम्य ! कथंचि जीवतीमेवं सती स्वतो विरूपामिमां इतोऽपि विरूपयितुमर्हसि ॥२०



  1. ' स्वद्विधानां तु नारीणां सुदुःखा ससपलता' (२) इति पूर्वोतं स्मरन्त्याइ-नि:सपलेति ।
  2. निःसपत्नी-ड.
  3. निगृह्य- हुंकारेण प्रतिषिध्य-गो.
  4. प्रगृह्य-ङ.