एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२० सर्ग: ]
149
तान् सर्वांन् अहनत राम: ब्रह्मान् पिशिताशनान्
अनपकारास्मदुपहिंसनार्थं युष्मत्प्रवर्तितोऽस्मदपेक्षितः युष्मद्वि- षयकवधः संपन्ननिमित्तोऽद्य संवृत्तः इत्याह - युष्मानित्यादि । विप्र- कारानू - मत्वर्थीयाजन्तः, अस्मासु अस्मदीयेषु ऋषिषु च वृथा वैरवतः युष्मान् । ऋषीणां तु नियोगेन युष्मान् हन्तुमेव सशरायुधः संप्राप्तोऽ- हमद्य प्राप्तनिमित्तः । अतस्तु संतुष्टाः, अन्तर्भावितणिः, मे प्रापित- युद्धसंतोषाः यूयं अत्रैव तिष्ठतैव, नोपावर्तितुमर्हथ । इदार्थ:- इह लोके देहे चेत्यर्थः || १० ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।
ऊचुर्वाचं सुसंक्रुद्धाः ब्रह्मघ्नाः शूलपाणयः ॥ ११ ॥
ब्रह्मन्ना इति । बहुलं छन्दसति क्विबभावे, 'अमनुष्यकर्तृके च इति टक ॥ ११ ॥
- ↑ अनपकारिणामस्माकं हिंसया ऋषिवचनाङ्गीकरणनिर्वर्तनमपि सुशकमभूदिति -
अपराषं विना हन्तुं लोकान् वीर ! न कामये' (9-25) इति सीतावाक्यं स्मरनेव-माह - ↑ अत्र संग्रामे यदि सन्तुष्टा: यूयं, तर्हि तिष्ठत उपावर्तितुं–पलायितुं नाईथ ।
यदि च इह लोके वः—युष्माकं प्राणैः अर्थ:- प्रयोजनं तर्हि निवर्तध्वम्-रा. अत्रैव
सन्तुष्टा:-अभीता इति यावत्, तिष्ठत । नोपावर्तितुमर्हथ मा पलायध्वमित्यर्थः । यदि
प्राणे: अर्थ: -प्रयोजनं-प्राणापेक्षाऽस्ति चेन्निवर्तध्वमित्यर्थः - गो. उपसर्पितुमिति
पाठे---दूरे तिष्ठत, अत्र निर्भयं मा गम्यतामित्यर्थः । - ↑ संदुष्टा:-ङ
- ↑ नोपसर्पितु, नोपासर्पितु-उ
- ↑ वः-ज.