एतत् पृष्ठम् अपरिष्कृतम् अस्ति
158
[अरण्यकाण्ड:
खराभिषेणनम्,
[१]तेषां शार्दूलदर्पाणां महास्यानां महौजसाम् ।
सर्वोद्योगमुदीर्णानां रक्षसां, सौम्य ! कारय ॥१०॥
लोकस्य – त्रैलोक्यस्य प्राणिनः पीडारूपो विहारः यैरेवासाधा- रण्येन, ते तथा । सर्वोद्योगमिति । सर्वप्रकारेण चतुरङ्गबलोपेततया सर्वायुधसामग्रीसमेततया च यः उद्योगः तादृशं उद्योगं कारय ।। १० ।।
पौलस्त्यानां - राक्षसानां अग्रे रामस्य वधार्थं निर्यातुमिच्छामीति योजना ।। १२ ।।
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् !
सदश्वैः [५]शबलैः युक्तं आचचक्षेऽथ दूषणः ॥ १३ ॥
शबलैः– चित्रवर्णैः । आचचक्ष इति । उपस्थित मिति शेषः ॥ १३ ॥
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् 1
हेमचक्रमसंबाधं वैडूर्यमयकूबरम् ।। १४ ।।
मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्रसूर्यैश्च काञ्चनैः ।
[६]. मङ्गल्यैः पक्षिसबैश्च ताराभिरभिसंवृतम् ॥ १५ ॥