पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
162
[अरण्यकाण्ड:
उत्पातदर्शनम्



[१] निपेतुः तुरगास्तस्य रथयुक्ताः महाजवाः ।
समे [२] बाष्पचिते देशे राजमार्गे यदृच्छया ॥ २ ॥

 रथयुक्ताः – रथे युक्ताः । बाप्पैः चितः - निबिडः तथा ॥ २ ॥

श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं [३] [४]परिगृह्य दिवाकरम् || ३ ||

 रुधिरः-रक्तवर्णः पर्यन्तः यस्य तत् तथा । अलात चक्रप्रतिमं इति वृत्तज्वालत्वोपमानम् ॥ ३ ॥

ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् |
समाक्रम्य महाकायः तस्थौ गृध्रः सुदारुणः ॥ ४॥
जनस्थानसमीपे तु[५] समागम्य खरखनाः ।
विस्वरान् विविधांश्चक्रुः मांसादाः मृगपक्षिणः ॥ ५ ॥

 खरस्वनाः - परुषशब्दाः ॥ ५ ॥

  [६]व्याजहुव [७] प्रदीप्तायां दिशि वै भैरवस्वनम् ।
|| अशुभं यातुधानानां शिवा घोरा महावनाः ॥ ६ ॥

 प्रदीप्तायां दिशीति । उत्पातवशात् जाज्वल्य मानायामित्यर्थः । यातुधानानां अशुभं व्याजहुः इत्यन्वयः ॥ ६ ॥



  1. निपेतुः – स्खलनादिना भूम्यां पतिता अभवन् ।
  2. पुष्पचिते-पुष्पयुते,अनेन पातनिमित्तराहित्यमुक्तम्-ति. ‘ बाष्पचिते' इति पाठे- बाष्पः - ऊष्मा |पूर्व ' बाष्पच्छन्नान्यरण्यानि' (16.16) इत्युक्तं स्मरणीयमत्र |
  3. परिगृह्य-परितो म्याप्य - गो.
  4. प्रतिगृह्य-च. ज.
  5. समाकम्य-ज.
  6. व्याजदुरभिदीप्तायां- व.
  7. प्रदीप्तायां दिशि - सूर्यसन्निहितदिशीत्यर्थ:- गो. || राक्षस सैन्यस्य पुरत एवोत्पातदर्शनात् - यातुधानानामशुभमित्युक्तम् ।