पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३ सर्ग:]
163
बहूनि दुनिंमितानि भौषणान्यमवंस्तदा



[१] [२].प्रभिन्न 'गजसंकाशा: तोयशोणितधारिणः ।
आकाशं [३]तदनाकाशं चक्रुः भीमा बलाहकाः ॥ ७ ॥

 प्रभिन्नाः :-मत्ताः । तोयमिव शोणितमेव घरन्तीति तथा । 'सुप्सुपा' इति समासः ।'उक्तानामप्रयोगः ' इति इवैवशब्दयोः निवृत्तिः । काशनं काश: प्रकाशः, अनाकाशं - अप्रकाशं-छन्नं चक्रुरित्यर्थः ॥ ७ ॥

बभूव तिमिरं घोरं [४] ।उद्धतं रोमहर्पणम् ।
दिशो वा विदिशो वाऽपि न च व्यक्तं चकाशिरे ॥ ८ ॥
क्षतजार्द्रसवर्णाभा संध्या [५] ।कालं विना बभौ |

 क्षतजेन–रक्तेन आर्द्रस्य पटादिवस्तुनः सवर्णाभा- समानवर्णा, संध्या कालं विनैव बभौ । मेघेष्विति शेषः ॥ ८ ॥

|| खरस्याभिमुखा नेदुः तदा घोरमृगाः खगः ॥ ९ ॥
कङ्कगोमायुगृधाश्च चुक्रुशुः भयशंसिनः [६]

 कंक:- (४७), गोमायु:- (ती), गृधः-(4) ॥ ९ ॥

[७]नित्याशिवकरा युद्धे शिवाः ॥ घोरनिदर्शनाः ।। १० ।।
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ।

 युद्धे नित्यमेवाशिवकराः - अशुभशंसिनः ॥ १० ॥



  1. ‘ प्रभिन्नगिरिसंकाशा: ' इति गो. पाठः । प्रभिन्ना:- इन्द्रच्छिन्न पक्षाः ।
  2. गिरि- ङ
  3. भनाकाशं - अवकाशरहितं, प्रकाशरहितं वा- रा.
  4. उद्धतं-सान्द्र-गो. अप्रधृष्यं वा
  5. कालं विना–स्वकालं विना-गो. || पूर्व सूर्याधिष्ठितदिशि
    शिवारुतमुक्तं, अधुना खरस्याभिमुखमुच्यते - गो. ॥ घोर निदर्शनाः भयंकरदर्शनाः
  6. एतदनन्तरं - "चक्रिरे विस्वरान् घोरान् मांसादा बनगोचरा:"-इस्यधिकम् ङ.
  7. नित्याशुभ-ङ.