पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
166
[अरण्यकाण्ड:
उत्पातद शनम्


यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ।
न क्वचित् प्राप्तपूर्वी मे [१]संयुगेषु पराजयः || २३ ।।
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् ।
देवराजमपि क्रुद्धः मतैरावत यायिनम् ॥ २४ ॥
वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुपौ ।
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ॥ २५ ॥
प्रहर्षमतुलं लेभे मृत्यु [२].पाशावपाशिता ।
समीयुश्च महात्मानः युद्धदर्शनकांक्षिणः ॥ २६ ॥
ऋपयो देवगन्धर्वाः सिद्धाश्च सह चारणैः ।
समेत्य चोचुः सहिताः तेऽन्योन्यं पुण्यकर्मणः ॥ २७ ॥
॥ ११ स्वस्ति गोब्राह्मणेभ्योऽस्तु [३] लोकानां [४]येऽपि संमताः ।
जयतां राघवः संख्ये [५]पौलस्त्यान् रजनीचरान् ॥ २८ ॥
चक्रहस्तो यथा युद्धे सर्वान् असुरपुङ्गवान् ।
एतच्चान्यच्च बहुश: ब्रुवाणाः परमर्षयः ।। २९ ।।
जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।
ददृशुः वाहिनीं तेषां राक्षसानां [६]गतायुषाम् ॥ ३० ॥

 एतदिति । न मे पराजयोऽभूत् इत्युक्तार्थतत्त्वमित्यर्थः ॥ ३० ॥

[७] रथेन तु खरो वेगात् [८] सैन्यस्याग्रात् विनिःसृतः ।
[९]तं दृष्ट्वा " [१०] राक्षसं भूयः राक्षसाच विनिःसृताः ॥ ३१ ॥



  1. संग्रामेषु ङ.
  2. पाशवशं गता- ङ
  3. ये लोकानां संमता:- गोब्राह्मणव्यतिरिक्ताः तेभ्यश्च स्वस्तीत्यर्थ:-ति. ये लोकसमता:-ल केप्सिताः, तेभ्य: गोब्राह्मणेभ्यः स्वस्त्यस्तु -रा.
  4. येऽमिसमता:-ङ..
  5. सर्वानसुरसत्तमान् - ङ..
  6. अल्पायुष इतिवत् गतायुष इति निन्दााक्यम् |
  7. पूर्व सैन्यसम्बद्ध एव तदप्रभागे स्थितः, इदानीं तु
    सेनां बहुदूरे पृष्ठत: त्यक्ता स्त्रयमेवाग्रे गत इत्यर्थ:-ति.
  8. उग्रसैन्यात्-ङ.
  9. इदम नास्ति-ज.
  10. निस्सृतं-ङ,