पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४ सगे:].
169
न्ययूयुजत् लक्ष्मणं सः सीतायाः परिपालने



[१] सधूमाथ शराः सर्वे मम युद्धाभिनन्दिनः ।
रुक्मपृष्ठानि [२]चापानि [३] विचेष्टन्ते च, लक्ष्मण ! ॥ ५ ॥

 सधूमाः- उत्पातवशतः घूमसंबद्धाः विचष्टन्ते- तूणीरे चलन्ति ॥ ५ ॥

यादृशा इह [४] कूजन्ति पक्षिणो वनचारिणः ।
[५] अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ ६ ॥
संप्रहारस्तु सुमहान् भविष्यति न संशयः ।

 अग्रतः – पुरस्तात् - आसन्नकाले इत्यर्थः ॥ ६ ॥

अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ॥ ७॥
संनिकर्षे तु नः, शूर ! जयं, शत्रोः पराजयम् ।

 एवं भयेष्वपि स्वस्यामयसूचक स्वानिमित्तसत्त्वमाह - अय- मित्यादि । स्फुरमाण:- स्फुरन् इति यावत् । दक्षिण इति शेषः । सन्निकर्षे – आसन्नकाले ॥ ७ ॥

[६] [७]सुप्रभं च प्रसन्नं च तव वक्तुं हि लक्ष्यते ॥ ८ ॥



  1. सधूमा इति । प्रतापानलोयुक्ता इति भाव:- गो. लोके एकस्य कार्यस्य
    तीव्रतया बहि: स्फोटनाव पूर्व 'इदानीं आयत्तीक्रियते, भविष्यत्यचिरात् स्पष्टं' इत्यर्थे
    एवं 'सधूमः इति प्रयोग: अनुभवसिद्ध एव ।
  2. आत्मनश्चापद्वयं, लक्ष्मणत्यैकमिति बहुवचनम्-गो.
  3. विवेष्टन्ते - ङ.
  4. गर्जन्ति - ङ.
  5. नः अभयं प्राप्तं, जीवितस्य-राक्षसानां जीवनस्य संशयाश्च प्राप्त:-रा. ती. 'अव्यवस्थौ हि विद्येते युद्धे जयपराजयो ' इति सामान्यलोकोक्तिया एवमुक्तिः । अत एव समनन्तरश्लोके स्वस्य जयः कथ्यते ।
  6. स्वमुखप्रसादादे: स्वयं द्रष्टुमशक्यत्वेन स्वसमानसुखे लक्ष्मणे निदर्शयति- समभमिति - गो. अयं भावः- रामस्य मुखं यदि निष्प्रभं स्यात् तदा तव पश्यतो लक्ष्मणस्यापि मुख निष्प्रभमेव स्यात् । लक्ष्मणमुख यदा सप्रभं तदा स्वमुखे न काचित् विक्रिया स्यादिति रामाशय इति ।
  7. सप्रभं-- ङ.