पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
182
[अरण्यकाण्ड :
खर सैन्यविध्वसनम्



[१]नाददानं शरान् घोरान्' [२] न मुञ्चन्तं [३] शिलीमुखान् ।
[४] विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः। [५] ॥ ३९ ॥

 नाददानमित्यादि । घोरान् शरान् आददानमपि न पश्यन्ति, तान् शिलीमुखान् मुञ्चन्तमपि न पश्यन्ति; अपि तु शरार्दिताः राक्षसाः विकर्षमाणमेव केवलं पश्यन्ति । निरतिशयशैत्र्यवशात् चक्रीभूतमेव केवमलं धनुः पश्यन्ति ।। ३९ ।।

[६] शरान्धकारमाकाशं आवृणोत् सदिवाकरम् ।
[७]रामः [८]'प्रवमन्निव तान् शरान् ॥ ४० ॥

' अन्धकारोऽस्त्रियाम्', शरजं अन्धकार तत् सदिवाकरं आकाशमावृणोत् ।। एवमपि तान् शरान् प्रवमन्निव, इवशब्द: एवार्थे, प्रवमन्नेव-भूयो विक्षिपन्नेव व अवस्थितोऽभूत् ॥ ४० ॥



  1. राक्षसाः रामस्य शरादानकर्षणमोचनानि नापश्यन्, किन्तु स्वहिंसनमेवापश्य-निति क्रियाप्रधानो निर्देश:-गो. आत्मानं विकर्षमाणं परं पश्यन्तीति योजना स्यात् । अथ वा- 'शरादानकर्षणमोचनानि ' इत्युक्त्या 'न कर्षमाणं पश्यन्ति' इति पाठः गो.सम्मतः स्यात् । 'स्वहिंसन मेवापश्यन्' इति च शरादिताः—इत्यस्य विवरणम् ॥
  2. नामुञ्चन्तं- ङ. विमुञ्चन्तं-च.ज.
  3. शरोत्तमान्-ज.
  4. न कर्षमाणं-च.न कार्मुकं विकर्षन्तं रामं पश्यन्ति संयुगे '-ङ.
  5. एतदनन्तरं - "शरा रामेणे तुत्सृष्टाः रुक्मपुङ्गाः पतत्रिणः । सर्पा: पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् इत्यधिकं - ङ..
  6. शरान्धकारमिति | अन्धकारमिति कीमत्वमार्ष-गो.
  7. बभूवावस्थितो नाददानं शरान् घोरान्' इत्यायुक्तया रामव्यापाराचदर्शनात् आइत्य राम एव
    तान् प्रवमन्निवासीदित्युक्तिः ।
  8. प्रक्षिपन्निव-ज.