पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६ सर्ग:]
155
रामस्तु भृशसंक्रुद्धः शरैक्षिच्छेद तच्छिर:



तं दृष्ट्वा पतितं भूमौ दूषणं निहतं रणे ।
साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ १६ ॥
[१] एतस्मिन्नन्तरे क्रुद्धाः त्रयः सेनाग्रयायिनः ।
[२] [३] संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ।। १७ ।।
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः ।
महाकपालो विपुलं शूलमुद्यम्य राक्षसः ।। १८ ।।
स्थूलाक्षः पद्विशं गृह्य प्रमाथी च परश्वथम् [४]
हदैवापततस्तूर्ण राघवः सायकैः शितैः ।। १९ ।।
तीक्ष्णाग्रैः प्रतिजग्राह [५] संप्राप्तानतिथीनिव ।
महाकपालस्य शिरः चिच्छेद [६]परमेषुभिः ॥ २० ॥
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् ।
स पपात हतो भूमौ विटपीव महाद्रुमः ॥ २१ ॥
स्थूलाक्षस्याक्षिणी ' तीक्ष्णैः पूरयामास सायकैः ।
दूषण स्यानुगान् पञ्च साहस्रान् कुपितः क्षणात् ।। २२ ।।
'बाणौघैः पञ्चसाहस्रैः अनयद्यमसादनम् ।

 पञ्चसाहस्रान् पञ्चसाहस्रैः बाणैः इत्यनेन सर्वलोकप्रसिद्धं रामबाणस्यामोघत्वं स्थापितम् ।। २२ ।।

दूषणं निहतं [७] दृष्ट्वा तस्य चैव [८] पदानुगान् || २३ ||
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् ।
अयं विनिहतः [९] संख्ये दूषणः सपदानुगः ॥ २४ ॥



  1. एतस्मिन्नित्याथर्धत्रयमेकं वाक्यम् ।
  2. संहत्य-मिलित्वा ।
  3. संगम्या - ङ.
  4. परश्वथं गृथ,अभ्यद्रवन्- इत्यनुकर्षः ।
  5. संप्राप्तान तिथीनिव' इति लोकरीत्या नमक्तिः ।
  6. रघुनन्दनः- च.परमेषुणा-ङ,
  7. श्रुखाच.च.
  8. वशानुगान्-ङ.
  9. शेते - ङ.