पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
188
[अरण्यकाण्ड:
दूषणादिवषः



महत्या सेनया सार्ध युवा रामं कुमानुषम् ।
शस्त्रैः नानाविधाकारैः हनध्वं सर्वराक्षसाः ।। २५ ।।

[१] एवमुक्ता खरः क्रुद्धः राममेवाभिदुद्रुवे ।

 हनध्वामिति । छान्दसौ शप्तौ । घ्नत इति यावत् । सहरतेत्यर्थः ।। २५ ।।

श्येनगोमी पृथुग्रीवः यज्ञशत्रुः विहङ्गमः ।। २६ ॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ।
[२]मेघमाली महामाली सर्पास्यो रुधिराशनः ॥ २७ ॥
द्वादशैते महावीर्याः बलाध्यक्षाः ससैनिकाः । TER
राममेवाभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ २८ ॥
ततः पावकसङ्काशैः हेम [३]वज्रविभूषितैः ।
जधान [४]शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥ २९ ॥

 तस्य सैन्यस्य शेषमित्यन्वयः ।। २२ ।।

ते रुक्मपुङ्खाः विशिखाः सधूमा इव पावकाः |
निजनुः तानि रक्षांसि [५] वज्रा इव'[६] महाद्रुमान् ॥ ३० ॥
रक्षसां तु शतं रामः [७]शतेनैकेन [८] कर्णिना।
सहस्रं च सहस्रेण जघान रणमूर्धनि ॥ ३१ ॥

 शतं एकेन शतेन तावन्मात्रसंख्याकेन कर्णिना-बाणविशेषेण प्राग्वर्णितेन जघान ॥ ३१ ॥



  1. तानेबमुक्ता खरः स्वयमपि रामं अमिदुद्रुवे ।
  2. हेम माली-च. ज.
  3. बज्रं - मणिविशेषः ।
  4. 'शेषान्- ङ.
  5. वज्राणीव ङ
  6. महासुरान्-ड.
  7. शरेन्णैकेन-ङ.
  8. कर्णिना कर्णाकार शरेण-गो.