पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
196
[अरण्यकाण्ड:
रामखरसंग्राम:



 पर्याकाशं – परितो वर्तमानं आकाशं, अनाकाशं - निरवकाशं अभवदित्यर्थः ॥ ८ ॥

शरजालावृतः सूर्यः न तदा स्म प्रकाशते ।
अन्योन्यवघसंरम्भात् उभयोः संप्रयुध्यतोः ।। ९ ।।
ततो नालीकनाराचैः तीक्ष्णाग्रैश्च विकर्णिभिः ।
आजघान [१]खरो रामं तोत्रैरिव महाद्विपम् ।। १० ।।
तं रथस्थं धनुष्पाणि राक्षसं पर्यवस्थितम् ।
ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥
[२] हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् ।
परिश्रान्तं महासत्वं मेने रामं खरस्तदा ।। १२ ॥

 सर्वसैन्यस्य इन्तारं रामं खरः परिश्रान्तं मेने इत्यन्वयः । एतेन अयं प्रहारावसरः सर्वयलेनापीति खरः बुद्धवान् इत्युक्तं भवति । अत एव आरात् तस्य रामधनुश्छेदलाभः ॥ १२ ॥

तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।
दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ १३ ॥
ततः सूर्यनिकाशेन रथेन महता खरः ।
आससाद रणे रामं [३]पितङ्ग इव पावकम् ॥ १४ ।।



  1. रणे-च. ज.
  2. खरः सर्वसैन्यहननपरिश्रान्तमपि रामं पौरुषे पर्यवस्थितं महासत्वं मेने। यद्वा
    उक्तविशेषणं रामं परिश्रान्तं मेने-गो.
  3. पतङ्ग इत्यनेन अमृत्वा अनिवृत्तिरुच्यते-गो.