पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८ सर्ग: ]
197
अथापि कालविवश: खरोऽसौ राममाययौ



ततोऽस्य सशरं चापं [१] मुष्टिदेशे महात्मनः ।
खरः चिच्छेद रामस्य दर्शयन् [२]पाणिलाघवम् ।। १५ ।।

 मुष्टिदेश इति । धनुर्ग्रहणप्रदेशोपरिस्थले इत्यर्थः ॥ १५ ॥

स पुनस्त्वपरान् सप्त शरानादाय [३] वर्माणि ।
[४] निजधान खरः क्रुद्धः शक्राशनिसम [५] प्रभान् ॥ १६ ॥

 वर्मणि-कवचसंधिबन्धे इत्यर्थः ॥ १६ ॥

ततः [६] तत्प्रहतं बाणैः खरमुक्तैः [७] सुपर्वभिः ।
पपात कवचं भूमौ रामस्यादित्य [८]वर्चसः ।। १७ ।।

 ततः तत्प्रहतं कवचमित्यन्वयः । एवं पाङ्क्तः॥ १७ ॥

ततः शरसहस्रेण राममप्रतिमोजसम् ।
[९] अर्दयित्वा महानादं ननाद समरे खरः ॥ १८ ॥

 शरसहस्रेण अईयित्वेति । सक्षतं कृत्वेति यावत् ।। १८ ॥

[१०].शरै [११] रर्पितः क्रुद्धः सर्वगात्रेषु राघवः ।
रराज समरे रामः विधूमोऽग्निरिव ज्वलन् ।। १९ ।
[१२] ततः गम्भीरनिर्हादं रामः शत्रुनिबर्हणः ।
चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ २० ॥



  1. मुष्टिदेशे-मुष्टिबन्धनसमीपदेशे-गो. अनेन करात् चाप: च्युत इति प्रतीयते । अत एवोत्तरत्र 'सज्यमन्यन्महडनुः (२०) इति वक्ष्यते ।
  2. इस्त-च. ज.
  3. ममणि-च. ज.
  4. निचखान-ड..
  5. स्वनान्-ड
  6. तत्प्रहितं- ङ.
  7. सपर्वभिः - ङ,
  8. वर्चसम्- ङ. ज.
  9. अर्पयित्वा-ङ..
  10. गम्भीरनिर्हाई-गम्भीरध्वनिकं धनुः रिपोरन्ताय नाशाय सज्यं चकारेत्यन्वय:- गो
  11. रर्दितः-ज
  12. शरैः अर्पितः-संक्षत: क्रतः-ति. अर्पित: संयुक्त:- गो.