पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
198
[अरण्यकाण्ड:
रामखरसंग्राम:



[१]सुमहद्वैष्णवं यत्तत् अतिसृष्टं महर्षिणा ।
वरं तद्धनुरुद्यभ्य खरं समभिधावत ॥ २१ ॥

 महर्षिणेति अगस्त्येनेति यावत् ॥ २१ ॥

ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः ।
[२]बिभेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ २२ ॥
स दर्शनीयो बहुधा ' विकीर्णः काञ्चनध्वजः ।
जगाम धरणीं सूर्यः देवतानामिवाज्ञया [३] ॥२३॥

 सूर्यो धरणीं जगामेति अभूतोपमा सर्वत्रात्र || २३ ||

तं चतुर्मि: खरः क्रुद्धः रामं गात्रेषु मार्गणैः ।
विव्याध [४] युधि मर्मज्ञः मातङ्गमिव तोमरैः ॥ २४ ॥
स रामो बहुभिर्वाणैः खरकार्मुकनिस्सृतैः।
विद्धो रुधिरसिक्ताङ्गः बभूव रुषितो भृशम् ॥ २५ ॥
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे।
मुमोच परमेष्वासः षट् शरानभिलक्षितान् ।। २६ ।।

 षट् शरानभिलक्षितान् इति । अभिलक्षितविषयानित्यर्थः ॥

शिरस्येकेन बाणेन द्वाभ्यां बाह्वो [५]रथार्दयत् ।
त्रिभिः चन्द्रार्धवक्कैश्च वक्षस्यभिजघान ह ॥ २७ ॥

 तानेव लक्षितषट्शरविषयान् दर्शयति - शिरस्येकेनेत्यादि ।



  1. महद्धनु: "इत्यत्रोक्तं महत्त्वमेव विवृणोति सुमइदित्यादिना ।
  2. चिच्छेद-ज.
  3. आशया-शापेन, उत्प्रेक्षेयम्- गो.
  4. हृदि-ज
  5. रथार्पयत्-ज.