पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२९ सर्ग:]
201
परस्परं वीरवादान् संल्प तुरनेकषा



लोमात् पापानि कुर्वाणः कामाद्वा यो न बुध्यते ।
[१] [२] भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥ ५ ॥

 लोभादित्यादि । लोभात् भयाद्वा पापानि कुर्वाणः यः पुमान् करकात् ब्राह्मणीव । वर्षोपलास्तु करका: ", तान् अत्तीति करकात्, 'ब्राह्मणी रक्तपुच्छि का', () श्रेयोन बुध्यते,स्वानर्थं स्वभोजनं दुष्कर्ममूलं तस्य पापिष्ठस्य तद्दुष्कर्मवशप्राप्तं अन्तर्भाशं लोकाः दृष्टाः पश्यन्ति ॥ ५ ॥

[३] वसतो दण्डकारण्ये तापसान् धर्मचारिणः ।
किं नु हत्वा महाभागान् [४] फलं प्राप्स्यसि, राक्षस ! ॥६॥

 किं ततः ? इत्यतः वसत इत्यादि ॥ ६ ॥

[५] चिरं पापकर्माण: [६] क्रूरा: लोकजुगुप्सिताः ।
ऐश्वर्य प्राप्य तिष्ठन्ति || शीर्णमूला इव द्रुमाः || ७ ||
अवश्यं लभते [७] जन्तुः फलं पापस्य कर्मणः ।
घोरं पर्यागते काले द्रुमाः पुष्पमिवार्तवम् ॥ ८ ॥

 घोरं कर्मणः फलमित्यन्वयः ॥ ८ ॥



  1. भ्रष्ट:-ऐश्वर्यात् भ्रष्टः, तस्य कर्मणः अन्तं फलं पश्यति-अनुभवति । कथमिव-
    करकात् ब्राह्मणीव... यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव करोति, तथा स्वमपीत्यर्थ:- गो.करकात्- वर्षांपलात् तद्भक्षणादिवेत्यर्थः; वर्षोपलं रक्तपुच्छिकाया विषमिति प्रसिद्धम्-रा.
  2. नष्टः-ङ. हृष्टः-ज.
  3. किं पापं मयाकृतमित्यत्राह-वसत इति गो.
  4. तेषां इननेन तब को लाभ इति भाव: ।
  5. चिरं न तिष्ठन्तीत्यन्वयः । अथ वा चिरं पा कर्माणः, चिरं क्रूरा:, चिरं लोक-जुगुप्सिताः इति सर्वत्रान्वयः । तेन अकृत्यकरणस्य कादाचिरकत्वाकस्मिकत्वादि व्यावृत्तिः । || वृक्षाणां मूलवस्, नराणां धर्मः खलु आधार: । तस्य लोपे नरस्यापि पतनमवश्यं भानीत्याशयः ।
  6. पापा:-ड..
  7. कर्ता-ज.