पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
204
[अरण्यकाण्ड:
खरगदामेदनम्



सर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ।
[१] सुवर्णप्रतिरूपेण [२].तप्तेनेव कुशाग्निना ॥ २० ।।

 सर्वथेत्यादि । विकत्थनेन-अद्य त्वां निहतमित्यायुक्तवृथा- जल्पनेन । लघुत्वमेव जल्पत्वमेव दर्शितम् । अनुचिताप्रयोजन- व्यवहारेण जल्पताप्राप्तौ दृष्टान्तः - सुवर्णेत्यादि । कुशामि:- स्वर्णकार- पात्रस्थतुषाग्निः । तेन ततेन सुवर्णप्रतिरूपेण सुवर्णतुल्याकारेण आरकूटेन । आरकूट: - (०) लघुत्वं दर्शितं भवति । सामान्यदृशा सुवर्णवत् व्यापाराईत्वं प्राक् तापात् स्थितं गौरवं यथा अनुचितेन कुशामिना तापेन कार्ष्यावहेन विनाश्य आरकूटत्वरूप लाघवं दर्शितं - प्रकाशितं भवति तद्वदित्यर्थः ॥ २० ॥



  1. सुवर्णतुल्यरूपेण पित्तलेन कुशामिना-स्वर्णादिशोधाग्निना तप्तेन स्वस्य कृष्णवर्णत्वरूपं लाघवं दर्शितं भवति, तापात्पूर्व हि स्वर्णताबुद्धिः सा तापे यथा नश्यति,तथा त्वया स्वस्मिन् स्थिता प्राक् शूरस्वबुद्धिः कत्थनेनापहृता-ति. यथा तापात् पूर्व सूक्ष्मविचारमन्तरा पिश्तले स्वर्णबुद्धिरुत्पद्यते, तापेन तु विनश्यति तथा स्वश्लाघावचनो-चारणात्पूर्व स्वच्छूरत्व विषयिणी बुद्धिर्ममोत्पन्ना त्वत्कर्तृकस्व श्लाघा कत्थनेन तु सा विनष्टे-व्यर्थ:- रा. तप्तेन अत एव सुणसदृशेन कुशानिना-कुश-दर्भ आश्रितेन अग्निना लघुत्वं विदयेते तद्भव | यथा तृणाग्नि: सुवर्णतुल्यतया भासमानोऽपि -ज्वलन्नपि उत्तरकाले दाहकार्यकरो न भवति, तथा कत्थनेन वीरवद्भासमानोऽपि पुरुषः उत्तरकाले लघुरेव भविष्यतीत्यर्थः- गो. सुवर्णप्रतिरूपेण-सुवर्णसदृशेन अग्निना-अग्निवर्णेन, अश्मना- पाषाणेन, न तप्यते बस्त्विति शेषः । सुवर्णवर्णमइमानं दृष्ट्वा अयमकार इति स्तुत्या व्यपदिशन्ति, तथाऽपि तेनाग्निना वस्तु न तप्यते, किन्तु मुख्येनैवाभिनेत्यर्थः । एतदुक्तं भवति -- अग्निबुद्धयाऽग्निवर्णमश्मानं स्पृशते पुरुषायाऽनुपलभ्यमानोष्णस्पर्शेनात्मनात्मनोऽ-नग्नित्वं नाम लघुत्वं यथा विदर्शितं भवति, तथा ते त्वया त्वां वीरं मन्वानाय मह्यं कत्थनेन-आत्मप्रशंसया अवीरत्वं नामात्मनो लघुत्वं विदर्शितं इत्यपेक्षितपदाध्याहा रेण योजना-ती. वस्तुतस्तु-बहि: सुवर्णस्वेन भासमान: आरकूट:, शोधनां प्राप्तः यथा स्वस्वरूपं भजते, तथा बहिः शूरमानी पुरुषः युद्धे प्राप्ते आत्मश्लाषाकरणेन स्वेनावीरत्वमेव प्रकृटितं भवेदिति भावः स्वरस: ॥
  2. तप्तेनेवाश्मनाम्झिना, तप्तेनेव तुषाग्निना- ङ