पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३० सर्ग:]
207
तामापतन्ती चिच्छेद रामस्तु शतभा शरैः



त्रिंशः सर्गः

[खरसंहारः]

[१] भित्वा तु तां गदां बाणैः राघवो [२] [३] धर्मवत्सलः ।
सयमानः खरं वाक्यं संरव्धमिदमब्रवीत् ।। १ ।।

 अथ खरवषः । मित्त्वेत्यादि ॥ १ ॥

एतत्ते बलसर्वस्वं दर्शितं, राक्षसाधम !
शक्तिहीनतरो {{bold|<poem>मत्त:--मदपेक्षया । यद्वा मत्तः- मत्कारणात् पूर्वमेव-गदाग्रहण-कालेsपि शक्तिहीन एव, इदानीं तु शक्तिहीनतरः इत्यर्थः

मत्तः वृथा त्वमवगर्जसि ॥ २ ॥</poem>}}

 अथ प्राप्तकालत्वात् त्वयैव विकस्थनं कृतमिति ब्रूते रामः- एतत्ते इत्यादि ॥ २ ॥

एषा बाणविनिर्मिन्ना गदा भूमितलं गता ।
[४] अभिधानप्रगल्भस्य तव [५] [६]प्रत्ययघातिनी ॥ ३ ॥

 अभिधाने केवलं प्रगल्भ तथा । प्रत्ययः-- शत्रुवधो येन सर्वथा भवति सर्वान्तकोऽयं इति योऽयं ते विश्वासः, तस्य स्वनाशतो पातिनी-प्रत्ययघातिनी ॥ ३ ॥

यत् त्वयोक्तं विनष्टानां अहमात्रप्रमार्जनम् ।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ ४ ॥



  1. स हस्वा ङ
  2. धर्मवत्सल इत्यनेन निरायुधवधोऽनुचित इति श्रीरामोऽमन्यतेति गम्यते - गो.समयमान इति कथनात्-- संरब्धं खरमित्यन्वयः । ‘तमेवममिसंरब्धं ब्रुवाणं' (१३) प्रति कथनात् स्मयसंरंभयोरविरोधात् क्रियाविशेषणं वा । अथ वा तत्रापि अभिसंरब्धं तं रमित्यन्वयः ।
  3. रघुनन्दन:- ङ
  4. अमिधाने – वाङ्मात्रे ।।
  5. प्रत्यरिघातिनीति । वीप्सायां प्रतिः, अरीनरीन् प्रति घातिनी गदा-गो.
  6. प्रत्यरिघातिनी-ङ.