पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३० सर्ग: ]
209
खरोऽन्ते दुर्मतिर्मन्त: भर्क्सयामास राघवम्



अद्य शोकरसज्ञास्ताः भविष्यन्ति [१] [२] निरर्थकाः ।
अनुरूपकुलाः पत्न्यः यासां त्वं पतिरीदृशः ॥ ११ ॥

 निरर्थकाः - निर्गतः अर्थकः- अर्थार्थमासः - कामपुरुषार्थो यासां ताः तथा । अनुरूपं त्वत्सदृशं कुलं यासां ताः तथा । कुलमिति दुर्वृत्तस्याप्युपलक्षणम् । पत्न्यः इति । त्वत्स्त्रियः इत्यर्थः ॥ ११ ॥

नृशंस ! नीच! क्षुद्रात्मन्! नित्यं ब्राह्मणकण्टक !
[३] यत्कृते शङ्कितैरनौ मुनिभिः पात्यते हविः ॥ १२ ॥

 ईदृशः इत्यस्यैव विवरणं- नृशंसेत्यादि । शङ्कितैरिति । त्वद्भट-भीतैः इत्यर्थः ।। १२ ।।

तमेवमभिसंरब्धं ब्रुवाणं राघवं [४] रणे ।
खरो निर्भर्त्सयामास रोषात् खरतरस्वनः ॥ १३ ॥
दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः ।
९वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥ १४ ॥

 ततो हीति । अवलिप्तत्वादेवेत्यर्थः || १४ ||

[५] कालपाशपरिक्षिताः भवन्ति पुरुषा हि ये ।
[६]कार्याकार्य न जानन्ति ते [७] निरस्तषडिन्द्रियाः ।। १५ ।।

 निरस्तषडिन्द्रिया इति । आहिताग्न्यादिरयम् । सान्तःकरण-क्षुरादिपञ्चेन्द्रियैः निरस्ताः – विनाशितात्मस्वातन्त्रयाः इत्यर्थः ।।



  1. निरर्थका:- व्यर्थजीवना:-विधवा इति वा ।
  2. निशाचर -ङ.
  3. त्वया कदाऽस्य धर्मस्य वो भवेत्' इति सदा शङ्कितैरेव मुनिभिः होमादिराचरितः खल्विति भावः ।
  4. वने- च. ज.
  5. ध्रुवं कालपरिक्षिप्तां:- ङ.
  6. वाक्यावाच्यं ङ.
  7. मनष्षष्ठानीन्द्रियाणि' (गीता-15-7) इत्याचनुसारात् षडित्युक्तम् ।