पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३० सर्गः]
216
सभ्रातृदारो विजयी रामः प्राविशदाश्रमम्



 अर्घाधिक मुहूर्तेनेति ।मुहूर्त:-- घटिकाद्वयम् । अर्धमधिकं यस्मिन् स तथा । घटिकात्र येणेत्यर्थः ॥ ३५ ॥

अहो बत ! महत्कर्म रामस्य विदितात्मनः || ३६ ॥
अहो ! वीर्य अहो ! दाक्ष्यं विष्णोरिव हि दृश्यते !
इत्येवमुक्ता ते सर्वे ययुर्देवाः [१] यथाऽऽगतम् ॥ ३७ ॥

 दाक्ष्यं – सामर्थ्य, युद्धविषयकम् ॥ ३७॥

[२] एतस्मिन्नन्तरे वीरः लक्ष्मणः सह सीतया ।
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं [३] सुखी ॥ ३८ ॥

 एतस्मिन्नन्तर इति । देवगणनिर्गमनसमये इत्यर्थः ॥ ३८ ॥

ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।
प्रविवेशाश्रमं वीरः लक्ष्मणेनाभि [४]पूजितः ॥ ३९ ॥
[५]तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ४० ॥

[६] मुदा परमया युक्ता दृष्ट्वा रक्षोगणान् हतान् ।
रामं [७].चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥ ४१ ॥



  1. यथासुखम्-ड..
  2. युद्धपरिसमाप्ति, रामविजयं च शावेति भावः । आगतानां महर्षीणां
    प्रत्यागमन कालिकहर्षादिभिः स वृत्तान्त: लक्ष्मणेन अवगतः स्यात् । अयमंश: 'सुखी
    इत्यनेन सूच्यते । इतरथा हि लक्ष्मगस्य सुखमसंभावितमेव ।
  3. सुखम्-ड.
  4. वादित:- ङ.
  5. चतुर्दशसहस्ररक्षोभिः अयमेकाकी कि करिष्यतीति उद्विमा सीता रामेण जिते, वीरतारतम्याभिशकुलप्रसूततया सबहुमानं परिषस्वज इत्याह - तं दृष्ट्वा इति । रामं विना गुहागता सीता ततो निर्गत्य निरस्तसमस्तशत्रु रामं परिषस्वजे- इत्यनेन- हृदयगुहागतो जीवः परतन्त्रः आचार्यमुखेन परमशेषिणं दृड्डा, तेन सकलविरोधिवर्गे निवर्तिते, ततो नित्य नित्यसूरिपरिषदासीनं पिणमासाद्य तद्भोग परीवाहमनुबभूवेति ध्वन्यते-गो.
  6. उक्तमेवार्थ विशदं दर्शयति द्वाभ्यां मुढेत्यादि - गो.
  7. 'चैवाव्ययं-च. ज