पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
216
[अरण्यकाण्ड:
रावणाकम्पन संवादः



ततस्तु तं राक्षससङ्घमर्दनं
[१] सभाज्यमानं मुदितैः [२]महर्षिभिः ।
पुनः परिष्वज्य [३]'शशिप्रभानना
बभूव हृष्टा जनकात्मजा तदा ॥ ४२ ॥

 इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे त्रिंशः सर्गः


 स्तुतिसन्तोषादौ पौनःपुन्यमलङ्कारः इति आदावेवोक्तम् । अतः - ततस्तु तमित्यादि । रवि (४२) मानः सर्गः ॥ ४२ ॥

 इति श्रीमद्रामायणामृतकतकटी कार्या अरण्यकाण्डे त्रिंशः सर्गः


एकत्रिंशः सर्गः

[रावणाकम्पनसंवादः]

[४] त्वरमाणस्ततो गत्वा [५] जिनस्थानादकम्पनः ।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ।। १ ।।

 अथ दैवात् खरसंग्रामसङ्गतेन कथंचित् पलायितेन अकम्पनेन विज्ञापितजनस्थानवृत्तान्तस्य तेनैव विनिवर्तितसङ्ग्रामस्य तेनैव बोधित- सीतापहारोपायस्य तदर्थं मारीवसङ्गतस्य मारीचोपदेशनिवृत्तसीतापहार-



  1. संपूज्यमानं - ङ.
  2. महात्ममि:- ज.
  3. मुदाऽन्त्रितानना-ज.
  4. त्वरमाण इत्यनेन- शूर्पणखातः पूर्वमेव लङ्कागमनमुक्तम् ।
  5. संपूर्ण दण्डकारण्यं जनस्थानपदवाच्यम् । अतो गोदावरीतीरात् गतोऽपि जनस्थानात् गत इत्युक्तम् - ति. अथवा अकम्पनस्य जनस्थानवासित्वात्, युद्धाय केवलं पचवटीगमनाच्च तथोक्तम् । अथवा अकम्पनोऽयं युद्धाय न गतः अत एव रामेण न हतश्च ; किन्तु जनस्थानपर्यवेक्षणाद्यधिकृत: स्यात् । गोविन्दराजस्तु अकम्पन: रावणचार इत्याह । अनन्तर श्लोकगतं ' कथञ्चिदहमागतः ' इति वाक्यं द्रष्टव्यमन्त्र |