पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रावणाकम्पनसंवादः अरण्यकाण्ड: - प्रमथ्येति । रामं केनचिदुपायेन प्रमध्य-विलोड्य — उच्चाट्य तस्य भार्यां प्रमथ्य-बलात्कारेण हर ॥ ३१ ॥ 222 अरोचयत तद्वाक्यं रावणो 'राक्षसाधिपः । चिन्तयित्वा महाबाहुः अकम्पनमुवाच ह ॥ ३२ ॥ अरोचयत -इष्टं मन्यते स्म । च्चाटनोपयामिति शेषः ॥ ३२ ॥ चिन्तयित्वेति । रामवनो- बाढं 2 काल्यं गमिष्यामि होकः सारथिना सह । आनयिष्यामि वैदेहीं इमां * हृष्टो महापुरीम् ॥ ३३ ॥ काव्यं प्रातः । काल्यमित्यव्यस्ति ॥ ३३ ॥ अथैवमुक्ता प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ॥ ३४ ॥ TRIFE

हृष्ट इति । अकम्पनवाक्यं श्रुत्वा, त्रेतायुगे श्रीरामोऽवनारेष्यतीति स्मरणात् हृष्टः । तदेतदुत्तररामायणे स्पष्टम् । तत्र हि सनत्कुमारं प्रति विष्णुहस्तमृतानां का गतिरिति रावणेन पृष्टे, तेन हतानां तत्रोकप्राप्तिरिति सनत्कुमारवचः श्रुत्वा ' एवं श्रुत्वा महाबाहू राक्षसेन्द्रः प्रतापवान् । त्वया सह विरोवेप्सु: चिन्तयामास राघव ॥ एतदर्थ महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हृता राम ! महावने ॥' इत्युक्त मिति तीर्थः । उत्तमस्त्रीलाभो भविष्यतीति हृष्ट इत्यर्थ उचितः । श्रुतस्यापि तस्यार्थस्य तामसत्वेन विस्मरणात् । ते पद्ये तुन यथाश्रुतायें, वक्ष्यमाणविष्णुपुराण- विरोधात् । किन्तु श्रीरामस्य स्वमृत्योरवतारं श्रुत्वा त्वया सह मृत्युविधातकविरोधेच्छुः तां हृतवान् । तद्वियोगे तव मरणमित्याशयेनेति तयोरर्थ इत्यन्ये । वस्तुतस्तु एतेषां श्लोकानां तद्वतां सर्गाणां च प्रक्षिप्तत्वान्न ते प्रमाणभूताः । अत एव ते सर्गा: कतकादिमिः तीर्थेन च न व्याख्याताः । एतेन- 'एतदर्थ महाबाहो रावणेन दुरात्मना । विज्ञायापहृता सीता त्वत्तो मरणकाया' इति तत्र पाठो दृश्यते । तत्र च त्वदुक्तार्था- संभवः – इत्यपास्तम्-ति. लोकरावणः; काळचोदितः - ङ.. कल्यं-ज.