पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३१ सर्गः ]
225
मारीचात् बोधितः सम्यक् व्यवर्तत च राक्षस:



[१] विशुद्धवंशाभिजनाग्रहस्त
तेजोमदः संस्थितदोर्विषाणः ।
उदीक्षितुं, रावण ! नेह युक्तः
स संयुगे राघवगन्धहस्ती ।। ४६ ।।

 राघवरूपो गन्धहस्ती --- यस्य गन्धं समाघ्राय अन्ये गजाः पलायन्ते सः गन्धहस्ती - - मत्तगजः उदीक्षितुमपीह- -देशे काले च न युक्तः । तस्य हस्तिसमाधिः-विशुद्धेत्यादि । विशुद्धवंशे अभिजनः--अभिजननमेव अग्रहस्तः-- शुण्डाग्रं यस्य तेजः--मदो यस्य स तथा । संस्थितौ -समीचीनावस्थानौ दोषौ -- बाहू एव विषाणे--- दन्तौ यस्य स तथा ॥ ४६ ।।

असौ [२]रणान्तःस्थितिसन्धिवालः [३]
विदग्धरक्षोमृगहा नृसिंहः ।
सुप्तस्त्वया बोधयितुं न [४] शक्यः
शराङ्गपूर्णो निशितासिदंष्ट्रः ॥ ४७ ।।

 सिंहसमाधी रामस्य - असावित्यादि । रणान्तः स्थितिरूपाः-रणमध्यावस्थानरूपाः संधयो वालाश्च यस्य स तथा । शररूपैः अङ्गैः पूर्णः ॥ ४७ ॥



  1. हे रावण ! विशुद्ध वंशाभिजन:- विशुद्धवंशोत्पन्नः त्व, अग्रः-श्रेष्ठः हस्तः-गुण्डादण्डः यस्य सः राघवगन्धहस्ती उदीक्षितुं - अपराद्धुमित्यर्थः, न युक्त:-रा.
  2. रणाग्र- ङ.
  3. संदधतीति सन्धिः । सन्धिभूतः - लोमसंघभूतः इत्यर्थ: । यद्वा सन्धि:- मध्य:,रात: बाल: - लाङ्गूलं यस्य स तथा । सिंहस्य लाङ्गूलं क्रोधदशायां मध्योपरिप्रदेशे स इति प्रसिद्धिः - गो. रणान्त: - रणमध्ये स्थितये संधि:- संधानं-उत्सुकत्वं वालो यस्य रा. सिंह| दीनां वालचालनं उत्साहादिपोषकं यथा भवति रणरङ्गस्थिति; रामोत्साहृपोषक इत्यर्थः
  4. युक्तः - ङ. ज.