पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३ सर्ग:]
231
न बुध्यसे भयं घोरं प्रमत्तस्त्वं हि रावण' ।



तमब्रवीत् दीप्तविशाललोचनं
प्रदर्शयित्वा [१] मोह [२] मूर्छिता ।
सुदारुणं वाक्यं अभीतचारिणी
महात्मना शूर्पणखा विरूपिता ॥ २५ ॥

 इत्याषें श्रीमद्रामायणे वाग्मीकीये अरण्यकाण्डे द्वात्रिंशः सर्गः


 अभिगम्याब्रवीदित्यस्यैव विवरणभूतोत्तरसर्गसंक्षेपः-तमब्रवीदि- त्यादि । प्रदर्शयित्वेति । स्वकं वैरूप्यमिति शेषः। अभीततया सर्वपुरुषेषु सर्वलोकेषु च चारः यस्याः सा तथा । शर (२५) मानः सर्गः ॥ २५ ॥

 इति श्रीमद्रामायणामृतकतकटीकार्या अरण्यकाण्डे द्वात्रिंशः सर्गः


त्रयस्त्रिंशः सर्गः

[रावणोपालम्भः]

ततः शूर्पणखा [३] [४] दीना रावणं लोकरावणम् ।
अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत् ॥ १ ॥

 अथ शूर्पणखाया: रावणे पारुण्यम् । तत इत्यादि ॥ १ ॥

प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः !
समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे ॥ २ ॥



  1. भयशोक-ङ. लोभ-ज.
  2. मोहिता-ङ. ज.
  3. दीना, रामपरिभूतत्वात् । स्वपरिभवदर्शनेऽपि भ्रतुर्निश्चलतया संक्रुद्धा- गो.
  4. दीप्ता- ङ.