पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
232
[अरण्यकाण्ड:
रावणॉपामम्भः



 निरङ्कुशः सन् बोद्धव्यं नावबुध्यसे इत्यन्वयः । “त्वं तु रावण ! दुर्बुद्धिः गुणैरतैः विवर्जितः ”[१] इति हि वक्ष्यन्ति ॥ २ ॥

सक्तं [२] ग्राम्योपभोगेषु कामवृत्तं महीपतिम् ।
लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः ॥ ३ ॥

हेयोपादेयराजगुणान् सामान्येनाह-सक्तमित्यादि । ग्राम्योप- भोगः--स्त्रयादिभोगः । तदेव दर्शितं- कामवृत्तमिति । कामचेष्टा- परम् ग | लुब्धं–भोगलोलुपम् ।। ३ ।।

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः ।
स तु वै सह राज्येन तैश्च कार्यैः विनश्यति ॥ ४ ॥

 तैश्च कार्यैरिति । अननुष्ठानविनश्यद्भिरित्यर्थः ॥ ४ ॥

अयुक्तचारं दुर्दर्श अखाधीनं नराधिपम् ।
वर्जयन्ति नराः दूरात् नदीपङ्गमिव द्विपाः ॥ ५ ॥

 अयुक्तचारमिति । अनियोजितापसपी,[३] दुर्दर्श उचित काले सभायां प्रजादर्शनप्रदानरहितम् । अस्वाधीनं स्वयादिपरतन्त्रम् ।। ५ ।।

ये न रक्षन्ति विषयं [४] अस्वाधीनाः नराधिपाः ।
त न [५]वृद्धया प्रकाशन्ते गिरयः सागरे यथा ॥ ६ ॥

 विषयं–प्रदेशं। वृद्ध्या-उदयेन न प्रकाशन्ते ॥ ६॥



  1. अस्मिन्नेव सर्गे २२ श्लोके ।
  2. ग्राम्येषु-ङ ज.
  3. अपसर्पः --चार: ।
  4. अस्वाधीनं - ज.
  5. बुध्या-ङ.