पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४ सर्ग:]
239
सीतां स्वदर्थ आनेतुं उचताऽहं निरूपिता



[१] नैवंरूपा मया नारी दृष्टपूर्वा महीतले ।
[२] यस्य सीता भवेत् भार्या यं च हृष्टा परिष्वजेत् ||१८||
[३] अतिजीवेत् स सर्वेषु [४] लोकेष्वपि पुरन्दरात् ।

 यं च हृष्टा परिष्वजेत् स एव सर्वेष्वपि कालेषु पुरन्दर इव अतिजीवेत् - अत्यधिकं जीवेत् अत्यधिकसुखी भवेत् ।। १८ ।।

 [५]सा सुशीला [६]वपुःश्लाघ्या रूपेणाप्रतिमा भुवि । १९ ।।
तवानुरूपा भार्या स्यात् त्वं च तस्याः तथा पतिः ।
तां तु विस्तीर्णजघनां [७]पीन श्रोणिपयोधराम् ।। २० ।।
[८]भार्यात्वे च तवानेतुं [९]उद्यताऽहं वराननाम् ।
विरूपिताऽस्मि क्रूरेण लक्ष्मणेन, महाभुज ! ॥ २१ ॥

 भार्यात्वे च तवाऽऽने सुमुद्यता' इति मृषा ब्रूते रावण- प्रियार्थम् ॥ २१ ॥

तां तु दृष्ट्वाऽद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ।
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ॥ २२ ॥



  1. तथारूपा-ज.
  2. परिष्वनं विना भार्यात्वेन स्थिता चेव, सः सर्वेषु लोकेषु सर्वानपि लोकान्
    भतिजीवेत् - अतीत्य जीवेद, सर्वलोकोत्तीर्णपरमसुखमयजीवन इत्यर्थ: । परिष्वङ्गाभावेऽपि
    सदा सन्निधानादिसौख्यादिति भावः । भार्यात्वं विनाऽपि यं सकृत् परिष्वजेत्, सः
    पुरन्दरादपि पुरन्दरमपि अतिजीवेत्-अतिशग्य जीवेत् - गो. पुरन्दरादप्यधिकं अभि-
    जीवेत् - रा.
  3. अभिजीवेत् - ज.
  4. देवेग्विव पुरन्दर:- ङ.
  5. साधुशीला-ड..
  6. वपुषा श्राध्या, सर्वानवद्याङ्गीत्यर्थ:- गो.
  7. पीनोनं-ज.
  8. भार्याथें, भार्यार्थ-ड..
  9. उधुक्ता -ड.